________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११श अध्यायः !
सूत्रस्थानम् ।
५७३
मिच्छन्ति । अन्तःपरिमार्ज्जनं वहि:परिमाज्जनं शस्त्रप्रणिधानं चेति । तत्रान्तःपरिमार्ज्जनं यदन्तःशरीरमनुप्रविश्यौषधमाहारजातव्याधीन् प्रतिमार्ष्टि । यत् पुनर्वहिः स्पर्शनमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मईनादैः रामयान् प्रमार्ष्टि तद् वहिःपरिमार्ज्जनम् । शस्त्रप्रणिधानं पुनरछेदन भेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैप एचार जलौकाश्चेति ॥ ३१ ॥ भवन्ति चात्र प्राज्ञो रोगे समुत्यन्ने वाह्य नाभ्यन्तरेण वा । कर्मणा लभते शर्म शस्त्रोपक्रमणेन वा ॥
मौषधमिच्छन्ति । सत्त्वावजयेनापथ्यवज्र्ज्जनं स्यात् । ततः सत्त्वावजयोपयोगित्वमुपपद्यते । प्रायश इत्युक्त्या क्वचिद्वाभिचारस्त्रिविधस्य द्रष्टव्यः । तत्र युक्तिव्यपाश्रयं त्रिविधमाह अन्तरित्यादि । तत्रान्तःपरिमाज्ञ्जनं तदौषधं यच्छरीरस्याभ्यन्तरमनुप्रविश्याहारजातव्याधीन प्रमार्ष्टि । तथा यत पुनः शरीरस्य वहिःस्पर्शनमाश्रित्याभ्यङ्गादिभिः कम्मे भिस्तैलादिकं यदामयान् प्रमार्ष्टि तद्वहिःपरिमाज्जैनमिति । संशोधयति संशमयति चेत्युभयार्थः प्रमाज्जनम् । आद्यपदेनावगाहनादीनां ग्रहणम् ।
अथ शस्त्रप्रणिधानमाह - शस्त्रेत्यादि । छेदनं द्विधाकरणम् । भेदनम् आशयान्तःप्रवेशनम् । व्यध आशयातिरिक्तस्थानेऽन्तर्भेदः । दारणं विदीर्णीभावः । लेखनं खननम् । उत्पाटनम् अन्तःशुपिरादुद्धरणम् । प्रच्छनं पाठीनदंष्ट्रादिना किञ्चिदिरणम् । सीवनं मूत्रादिना सन्तानीकरणम् । एषणं नाड़ीगत्यनुसन्धानम् | क्षारो द्रव्याणां भस्मनः क्षरणजः सारभागः । जलौका रक्तपा इति । इतिशब्दः समाप्त ॥ ३१ ॥
गङ्गाधरः:- अत्र प्रमाणश्लाकानाह - भवन्ति चात्रेत्यादि । प्राज्ञ इत्यादयः श्लोकाः । प्राज्ञां बुद्धिमान रागे समुत्पन्न सति वालन वहिःपरिमाज्जेनेन कम्पेणा, आभ्यन्तरेणान्तः परिमार्ज्जुनेन वा कर्मणा, शस्त्रोपक्रमणेन वा शरीरदोषकोप इत्यनेन सम्बध्यते, तेन, मानसदोषजेऽप्युन्मा पस्मारादावञ्जनादि भवतीति दर्शयति ॥ ३१ ॥
चक्रपाणिः - वैद्यभेदाभिधानप्रसङ्गेनातुरभेदमाह - प्राज्ञ इत्यादि । शर्म सुखमारोग्यमिति
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
: