________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७२
चरक-संहिता। तिस्रषणोयः त्रिविधमौषधमिति-दैवव्यपाश्रयं युक्तिव्यपाश्रयं सत्त्वावजयश्चेति। तत्र देवव्यपाश्रयं—मन्त्रौषधिमणिमङ्गल* नियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि। युक्तिव्यपाश्रयं—पुनराहारौषधद्रव्याणां योजना। सत्त्वावजयः-- पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः ॥ ३०॥
शारीरदोषप्रकोपे खलु शरीरमेवाश्रित्य प्रायशस्त्रिविधमौषधकम्मणः सिद्धिः; ताभिः सिद्धाः प्रख्याता ये व्याधितानां सुखप्रदास्ते प्राणाभिषरा वैद्या उच्यन्ते । तेषु वैद्यखं भवत्यवस्थितम् । इति । जीवितायायुषेऽभिमुखीभूय सरन्तीति जीविताभिषरास्ते व्याधितरुपादेया इति ॥२९॥ , गङ्गाधरः-अथ त्रिविधं भेषज व्याचप्टे-त्रिविधमित्यादि। त्रिविधमौषधमिति यदुक्तं तदेवव्यपाश्रयं युक्तिव्यपाश्रयं सत्त्वावजयश्चेति। दैवयुक्तिव्यपाश्रयं पूर्वाध्याये व्युत्पादितमिह निर्दिशति। तत्र मन्त्रीपधिप्रभृति दैवं विशेषेणापाश्रित्य व्याधीन प्रशमयतीति देवव्यपाश्रयम् । अत्रौषधिःप्रशस्तक्षादिधाय्यवेन विहिता या। मङ्गलं शुभकृत् कम्मे । आदिना स्तोत्रपाठादि। युक्तिव्यपाश्रयं पुनरिति। युक्तिं योगं विशेषेणापाश्रित्य यदौषधं व्याधीन् प्रशमयति तदाहारस्यौषधद्रव्याणाञ्च योजना इति। आहारपदं विहारोपलक्षणम् । सत्त्वावजयः पुनरित्यादि। सत्त्वं मनः। अस्यार्थेभ्योऽहितेभ्यो निग्रहः सत्त्वावजय उच्यते ॥३०॥
गङ्गाधरः-एषु यदौषधं यत्र व्याधी विधेयं तदाह-शरीरेत्यादि। शरीरदोषाणां वातपित्तकफानां प्रकोपे निजागन्तुव्याधिषु शरीरमेवाश्रित्य त्रिविधवैद्यभाण्डं वस्तिनेत्रादि, प्रतिरूपका वैद्यसदृशाः, व्यपदेशोऽन्यसम्बन्धेन कीर्तनम्, अतद्विधा ज्ञानहोनाः ॥ २९॥
चक्रपाणिः-दैवमदृष्टं तद् व्यपाश्रयं, तच्च यद रजननेन व्याधिप्रत्यनीकं मन्त्रादि, यदि वा, देवशब्देन देवा उच्यन्ते, तानाश्रित्य यदुपकरांति तत् तथा, मन्सादयो हि देवप्रभावादेव व्याधिहराः, बल्युपहारादिप्रीताश्च देवा एवं प्रभावाद व्याधीन् प्रन्ति ; अत्र दैवव्यपाश्रयमादावुक्तमाशुव्याधिहरत्वेन, प्रणिपातो देवादीनां शारीरो नमस्कारः, गमनं विदूरदेवादिगमनम् ॥ ३०॥
चक्रपाणिः--सम्प्रति प्रकारान्तरेणोपयुक्त भेषजत्रैविध्यमाह-शरीरेत्यादि। प्रायःशब्दः * बल्युपहारहोम इत्यधिकः पाठश्चक्रसम्मतः ।
For Private and Personal Use Only