________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७० चरक-संहिता।
तिस्त्रैषणीयः पक्वाशयश्चेति पर्यायशब्दैः तन्त्रं । स रोगमार्ग आभ्यन्तर इति ॥ २७॥
तत्र गण्डपिड़कालज्यपचीचमकीलाधिमांसमशककुष्ठव्यङ्गादयो विकारा पहिर्गिजाश्च वीसर्पश्वयथुगुल्मार्थीविद्रध्यादयः शाखानुसारिणो भवन्ति रोगाः। पक्षबधग्रहापतानकादित-शोष-राजयक्ष्मास्थि--सन्धि--शूल--गुदद्मशादयः शिरोहृद्वस्तिरोगादयश्च मध्यममार्गानुसारिणो भवन्ति रोगाः। ज्वरातीसारच्छईलसक-विसूचिका-कास-श्वास-हिकानाहोदरप्लीहादयोऽन्तगिजाय। वोसर्पश्वयथगुल्मार्थोऽभ्यन्तरविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः ॥ २८॥ फुप्फसश्च कोष्ठ इत्यभिधीयते ।" इति। अस्य प्रयोजनमाह-स इत्यादि । स आभ्यन्तरो रोगमार्गस्तृतीयः। एतन्मार्गगतरोगाणां सुखदुःखयाप्यासाध्यवं यथालक्षणं भवतीति ख्यापितम् ॥ २७ ॥
गङ्गाधरः--अर्थतत्रिमार्गप्रतिनियतविशिष्टव्याधीनुपदिशति-तत्रेत्यादि । गण्डो व्रणशोथो न गलगण्डः। आदिनाऽजगल्लिकादीनां ग्रहणम्। वीसादयश्च शाखानुसारिणो रक्तायनुसारिणोऽपि भवन्ति। कोष्ठानुसारिणश्च भवन्तीति वक्ष्यते । तेषां ये रक्ताद्यनुसारिणस्ते तु न कोष्ठानुसारिणः । कोष्ठानुसारिणो ये तेऽपि - शाखानुसारिण इति भेदः। मध्यममार्गानुसारिणस्तु रोगाः पक्षबधपक्षग्रहापतानकादयः स्युः। पक्षशब्देन सह बधग्रहयोः प्रत्येकमन्वयः। आदिना हिक्कादयः शिरोहद्वस्तिरोगादय इति । पुनरादिशब्देन वृषणवृद्धग्रादयः ।
कोष्ठानुसारिणो रोगानाह-वरातिसारेत्यादि। ज्वरोऽतिसार इत्यादयो स्नायुः ; भामस्य पक्वस्य चाशय आमपक्वाशयः । एतच्च मार्गभेदकथनं तदाश्रितव्याधीनां सुखसाध्यत्वादिज्ञानार्थम् ॥ २७ ।।
चक्रपाणिः--सम्प्रति यन्मार्गाश्रितो यो रोगो भवति तं दर्शयति-तत्र गण्डेत्यादि। वहिर्मार्गजाश्चेति विसर्पोदीनां विशेषणं, विसादयो ह्यन्तर्मार्गभाजोऽपि सम्भवन्त्यतस्तद व्युदासार्थम् । पक्षशब्दो बधग्रहाभ्यां सम्बध्यते, शोपो धातुविशोषः। ज्वरो यद्यपि सर्वशरीरग
For Private and Personal Use Only