________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
सूत्रस्थानम् ।
५६६ त्रयो रोगमार्गा इति-शाखा मास्थिसन्धयः कोष्ठश्च । तत्र शाखा रक्तादयो धातवस्त्वक च स वाह्यो रोगमार्गः। मम्माणि पुनवस्तिहृदयमूर्द्धादीन;अस्थिसन्धयोऽस्थिसंयोगाः तत्रोपनिबद्धाश्च स्नायुकण्डराः स मध्यमो रोगमार्गः । कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यं महानिम्नमाम
गङ्गाधरः-अथ “त्रयो रोगमार्गाः” इति यदुक्तं, ते तु शाखा च मास्थिसन्धयश्च काष्ठश्चेति पृथक्पदेन हेयकको मार्ग उक्तः। तत्र शाखा रक्तादयः पड् धातवस्त्वक् चेति सप्तक एको मार्गः। वक् चेति पृथकपदेन खग्गतरसथोपलक्ष्यते। तेनाहारपरिपाकजो हृदयस्थो रसो व्यावत्तते, तस्य कोष्ठस्थबेन कोष्टान्तर्भूतखात्। एवं प्लीहयकृद्तरक्तस्य कोष्ठान्तर्गतखान शाखासंशा। एष वाह्यो रोगमार्ग एकः। सुखसाध्यवख्यापनाथमेतदुपदेशः । माणि पुनरित्यादि। वस्तिहृदयमूर्द्धादीनीति। सप्तोत्तरं मम्मशतम् । तत्र प्राधान्याद्वस्तिहृदयमूर्नामुपादानमादिना शेषाणां चतुरुत्तरं मम्मशतस्य ग्रहणम् । तद्विस्तरेण शारीरे व्याख्यास्यते। अस्थिसन्धय इति किमस्थि च सन्धयश्चेति किमस्थनां सन्धय इति ? तत्राह-अस्थिसन्धय इति अस्थिसंयोगास्तत्रोपनिबद्धाश्च स्नायुकण्डराः। स्नायुः सूक्ष्मसिराः, कण्डरा अस्थिवत् स्थूलसिराः। इति मादीनामेकमार्गखेनोक्तिप्रयोजनमाह-स मध्यमो रोगमागे इति। मध्यममार्गखवचनेन तदरोगाणां कृच्छसाध्यवं ख्यापितम् । तृतीयं मार्ग व्याचष्टे-कोष्ठः पुनरित्यादि। शरीरमध्यमुदरादिमहास्रोतोमहासरणिश्छिद्रं महानिम्नं महागर्त्तमामपकाशयश्चेति पर्यायशब्दः । तत्रान्तरे चोक्तम्-"स्थानान्यामाग्निपकानां मूत्रस्य रुधिरस्य च। हृदुण्डकः
चक्रपाणिः-अत्र प्रतिरोगमार्गानाह---त्रय इत्यादि। मास्थिसन्धिभ्यामेको मार्गः। अत्र शाखेति संज्ञाकरणं व्यवहारार्थे, तथा रक्तादीनां धातूनां शाखाभिधेयानां वृक्षशाखातुल्यत्वेन वाह्यत्वज्ञापनार्थम् । त्वक चेति त्वक्शब्देन तदाश्रयोऽपि रसो गृह्यते ; साक्षात् तु रसानभिधानं हृदयस्थायिनो रसस्य शाखासंज्ञाव्यवच्छेदार्थ, तस्य हि कोष्ठग्रहणेनैव ग्रहणम् । अनेन न्यायेन यकृत्प्लीहाश्रितञ्च शोणितं कोष्ठत्वेनैवाभिप्रतमिति बोद्धव्यं सामान्यन्यायत्वात्, उक्तञ्च कोष्ठविवरणे-"स्थानान्यामाग्निपक्कानां मूत्रस्य रुधिरस्य च। हृदुण्डुकः फुफ्फुषश्च कोष्ट इत्यभिधीयते ॥' अस्थिसन्धिविवरणम् - अस्थिसंयोगा इति ; तत्रेति, अस्थिकण्डरा इह तन्त्र स्थूल
७२
For Private and Personal Use Only