________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६८ चरक-संहिता।
(तिषणीयः त्रयमेतन्मानसं किश्चिनिष्पद्यते सुखं वा दुःखं वा, तस्मादेतच्चानुष्ठेयम्। तद्विद्यवृद्धानाञ्चोपसेवने प्रयतितव्यम् आत्मदेशकालबलशक्तिज्ञाने यथावच्चेति ॥ २५ ॥
भवति चात्र। मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम् ।
तद्विद्यसेवा विज्ञानमात्मादीनाञ्च सर्वशः ॥ इति ॥ २६ ॥ तव्यम् । कस्मात् ? न ह्यन्तरेणेत्यादि । हि यस्मात् । लोके त्रयमेतद्धर्मार्थकाममन्तरेण मानसं सुखं वा दुःखं वा किश्चिन्न निष्पद्यते, तस्मादेतच्च हितमेव धर्मार्थकाममनुष्ठेयं बुद्धिमता। हिताहितं बुद्धग्रावेक्ष्य को धम्मो मम हितः कोऽहितः, कश्चाथों हितः कोऽहितः, कः कामश्च हितः को वाप्यहित इति हितानामुपसेवनेऽहितानामनुपसेवने प्रयतितव्यम् । तथा तद्विद्यद्धानां चोपसेवने प्रयतितव्यम् । तेनात्महिताहितान् धर्मार्थकामान् वेदितुमहेति । एवमात्मदेशकालबलशक्तिज्ञाने यथावच्च प्रयतितव्यं तद्विद्यद्धोपसेवनेनेति । तद्विद्यद्धोपसेवनेन हि भवत्यात्मशानं देशज्ञानं कालशानं वलज्ञानं शक्तिशानं यथावत् । यस्यात्मनि यः कामोऽर्थो धम्मो वा हितोऽप्यहितो वा, यस्मिन् देशे च यो धर्मोऽर्थो वा कामो वा हितो वाऽहितो वा। यस्य धर्मास्यार्थस्य कामस्य यादृशं बलं हितमहितं वा यस्य यादृशी शक्तिहिता वाऽहिता। तत् सर्च तद्विद्यद्ध उपसेवनेन तुष्ट उपदिशेदिति मानसव्याधिप्रतीकारोपाय उक्तः। तत्र प्रमाणं श्लोकमाह- भवति चात्रेति। मानसं प्रतीत्यादि। मानसं व्याधि प्रति भैषज्यं त्रिवर्गस्य धम्मस्यार्थस्य कामस्य चान्ववेक्षणम् । तदवेक्षणार्थमुपदेष्टुस्त द्विद्यस्य सेवा। तद्विद्योपसेवनेन चात्मादीनामात्मदेशकालबलशक्तीनां विज्ञानं स्यादिति ॥ २५।२६ ॥
सूचयति । त्रयमेतद्धर्मार्थकामरूपं, मानसं सुखं वा मानसं दुःखं वा निष्पद्यत इति योज्यम् ; तद्विद्य इह मानस-व्याधि-भेषजवेदी। आत्मदेशेत्यादि ।-कोऽहं, किं मे हितमित्यात्मज्ञानम्। को देशः, अस्मिन् किमुचितमिति देशज्ञानम् ; एवं कालादावपि ज्ञानं बोद्धव्यम् ॥ २५ ॥
चक्रपाणिः-सम्प्रत्यमुमेवार्थे सुखग्रहणार्थ श्लोकेनाह-मानसं प्रतीत्यादि। मानसं विकारम् इति भावः । त्रिवर्गस्य धर्मादेः ॥ २६ ॥
For Private and Personal Use Only