________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१श अध्यायः सूत्रस्थानम् ।
५६७ त्रयो रोगा इति निजागन्तुमानसाः। तत्र निजः शरीरदोषसमुत्थः, आगन्तुभूतविषवाय्वग्निसम्प्रहारादिसमुत्थः । मानसः पुनरिष्टस्यालाभाल्लाभाच्चानिष्टस्योपजायते ॥ २४ ॥
तत्र बुद्धिमता मानसव्याधिविपरीतेनापि सता बुद्धया हिताहितमवेच्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने हितानाञ्चोपसेवने प्रयतितव्यम्। न ह्यन्तरेण लोके बुद्धिहि पश्यति ॥ विषयप्रवणं चित्तं धृतिभ्रशान्न शक्यते । नियन्तुमहितादाद धृतिहिं नियमात्मिका॥ तत्त्वज्ञान स्मृतियस्य रजोमोहातात्मनः । भ्रश्यते स स्मृतिभ्रंशः स्मर्तव्यं हि स्मृतौ स्थितम् ॥” इति प्रथमाध्यायोक्तस्य काल. बुद्धीन्द्रियार्थानामित्यादिवचनस्य प्रपञ्चोऽयमिति ॥२३॥
गङ्गाधरः-अथ क्रमप्राप्तं त्रयो रोगा इति निजागन्तुमानसाः। निजस्यायं निजः शरीरदोषसमुत्थः। शारीरदोषवातपित्तकफवैषम्यं तत्कृतश्च ज्वरादि निजः। आगन्तुरिति भूतादिसमुत्थः। भूता देवग्रहादयः। विषं स्थावरं जङ्गमञ्च तथोपविपञ्च। वायुः सामुद्रो विषजुष्टादिश्च दुष्टवायुः । अग्निलो किकाग्निः। सम्प्रहारः शस्त्रास्रम्, आदिना दण्डमुष्ट्यादिकम् । मानसो रोगस्तु इष्टस्यालाभादनिष्टस्य लाभाच उपजायते। क्रोधशोककामादिौनसदोषस्य रजसस्तमसवानिग्रहात् । यदि तयोनिग्रहो भवति सत्त्वं चोद्रिक्तं स्यात् तदा नानिष्टलाभादिष्टस्यालाभाच क्रोधादयो भवन्ति ॥२४॥
गङ्गाधरः---अथास्मिंस्तन्त्र निजागन्तुव्याधीनामुपायस्य विस्तरेण वक्ष्यमाणसमभिनत्य तयोरुपायमिह नोक्त्वा मानसव्याध्युपशमोपायमाहतत्रेत्यादि। बुद्धिमता प्रशस्तबुद्धिमत्पुरुषेण प्रशस्तया बुद्धया हिताहितमवेक्ष्य मानसव्याधिविपरीतेन लोभमोहक्रोधादिविपर्ययेण सता साधुना कर्मणा धर्मार्थकामानामहितानामनुपसेवने हितानाञ्च धर्मार्थकामानामुपसेवने प्रयति
चक्रपाणिः-रोगानाह-त्रयो रोगा इति। इएलाभाजायते कामहर्षादिः, अनिए-प्रियवियोगादिलाभाच शोकादयः ; यदि वा, इष्टस्यालाभालाभाञ्चानिरस्येति पाठः, अत्र तु पाठे चकारादिष्टलाभोऽपि हेतुर्बोद्धव्यः ॥ २४ ॥
चक्रपाणिः-सम्प्रति मानसव्याधिचिकित्साया अल्पवक्तव्यत्वेनेहैव तच्चिकित्सामाह-तत्रेत्यादि। मानसव्याधिपरीतेनापीत्यपिशब्देन शारीरव्याधियुक्त नापि वक्ष्यमाणमनुष्ठेयमिति
For Private and Personal Use Only