SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५६६ ( तित्रेपणीयः इत्यसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति त्रयस्त्रिविधविकल्पाः कारणं विकाराणाम् । समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति ॥ २२ ॥ सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगात् समुपलभ्येते । यथास्वयुक्त पेचिलो हि भावाभावो ॥ २३ ॥ गङ्गाधरः-- इत्यसात्मेत्यादि । इति पूर्वोक्ता असात्मेन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्चेति त्रयः खल्वतियोगायोगमिथ्यायोगविकल्पा विकाराणां कारणं भवन्ति । एभ्योऽन्यो यः समयोगः स कस्य कारणमिति ? अत आह—समयोगेत्यादि । समयोगयुक्तास्तु खल्विन्द्रियार्थसंयोगबुद्धिसंयोगकालसंयोगाः प्रकृतिहेतवः स्वास्थ्ये हेतवो भवन्ति ।। २२ ।। गङ्गाधरः - कस्मादिति ? अत आह—- सर्व्वेषामित्यादि । सर्व्वेषामिति सर्गास्थायां यावन्तो भावास्तावतामेव भावानां वस्तूनां भावाभावौ । यथास्वस्वरूपेण वत्र्त्तनं भावः, अन्यथारूपेण वर्त्तनमभावः । एतौ द्वौ न कालबुद्धी न्द्रियार्थानां समयोगायोगातियोग मिथ्यायोगादन्तरेण विना समुपलभ्येते । कस्मादिति ? अत आह— यथास्वेत्यादि । भावाभावो हि यस्माद् भावानां यथास्वयोगक्षिणौ । कालादीनां समयोगापेक्षी भावानां भावः । तेषामेवातियोगायोगमिथ्यायोगापेक्षी भावानामभाव इति । तदुक्तं कतिधापुरुषीये" विषमाभिनिवेशो यो नित्यानित्ये हिताहिते । ज्ञ ेयः स बुद्धिविभ्रंशः समं 1 चरक संहिता | - Acharya Shri Kailassagarsuri Gyanmandir चक्रपाणिः - आयतनान्युपसंहरति-- इतीत्यादि । विकाराणां हेतवो भवन्तीति सम्बन्धः, तथा समयोगयुक्ताः सम्यग्योगयुक्ताः प्रकृतिहेतवो भवन्तीति योज्यम्, प्रकृतिरारोग्यम् ॥ २२ ॥ चक्रपाणिः—– इदानीं धातुसाम्यवैषम्य हेतुत्वेन सम्यग्योगायोगौ च प्रतिपाद्य वाह्यानामपि वृक्षघटादीनां सम्यस्थिति-विनाशयोः, सम्यग् योगायोगावेव कारणमिति दृष्टान्तार्थं भावस्वरूपज्ञानार्थञ्चाह - सर्व्वेषामित्यादि । भावः सम्यगवस्थानम्, अभावोऽसम्यगवस्थानं विनाशो वा ; योगात् सम्यग्योगाद् भावः, अयोगादिभ्योऽभावः यथास्वं युक्तिर्या यस्य भावस्याभावस्य वा युक्तिः स्वकारणयुक्तिस्तदपेक्षिणौ भवत इति सम्बन्धः यथा वृक्षस्य भावेऽवस्थानेऽनत्यरूपपानीययोगादिर्युक्तिः, अभावे तु वृक्षस्य पानीयातपातियोगायोगी तथा वज्रपातनादियुक्तिः, ततस्तदपेक्षौ वृक्षस्य भावाभावौ भवत इत्यादि कल्पनीयम् ॥ २३ ॥ ; For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy