________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पशअध्यायः
सूत्रस्थानम् ।
५६५ कालः कालमिथ्यायोगः। कालः पुनः परिणाम उच्यते ॥ २१॥ हीनवषलक्षणा वर्षाः शरच तयोरयोगः। यथावलक्षणविपरीतलक्षणस्तु कालः कालमिथ्यायोगः। अन्यनातिरिक्तशीतलक्षणः स्खलक्षणः कालो हेमन्तः शिशिरश्चातिलक्षणोऽतियोगः, हीनलक्षणोऽयोगः, ताभ्यां विपरीतलक्षणस्तु हिमे शिशिरे चोष्णवर्षान्यतरलक्षणो हिमशिशिरमिथ्यायोगः । एवं वसन्तग्रीष्मयोः शीतवर्षलक्षणान्यतरलक्षणो वसन्तो ग्रीष्मो वसन्तग्रीष्ममिथ्यायोगः। तथा शीतोष्णलक्षणान्यतरलक्षणा वर्षाः शरच्च वर्षाशरन्मिथ्यायोग इति।
एषां सामान्यधर्मेण संज्ञार्थमाह -कालः पुनरित्यादि। काल इति कलयति कालयति वा भूतानीति। समयोगातियोगायोगमिथ्यायोगयुक्तः सर्वः कालः। परिणमयति भूतानीति परिणामहेतुलात् परिणाम उच्यते। नितरामेवैतत्त्रिविधविकल्पोऽपि कालपरिणामसंश उच्यते। एप हि कालः सर्वाणि शुभाशुमानि कर्माणि परिणम्य धर्माधर्मरूपेण परिणामसंज्ञ एव भवति। तस्माद धर्माधर्मावपि परिणामाख्यखात् कालेन गृहेाते न तु प्रशापराधेन। सद्यःफलकर्मणः फलन्तु प्रशापराधेन गृह्यते, कालान्तरे परिणामाभावादिति। वक्ष्यते च कतिधापुरुषीये-"निर्दिष्टा कालसम्माप्तिाधीनां हेतुसंग्रहे। चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा ॥ मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः। जीर्णभुक्तमजीर्णान्न-कालाकालस्थितिश्च या॥ पूर्वमध्यापराह्नाश्च रात्रया यामास्त्रयश्च ये। येषु कालेषु नियता ये रोगास्ते च कालजाः॥ अन्येदुरष्को द्वाहग्राही तृतीयकचतुर्थको । स्वे स्वे काले प्रवर्तन्ते काले हेषां वलागमः॥ एते चान्ये च ये केचित् कालजा विविधा गदाः। अनागते चिकित्स्यास्ते बलकालो विजानता॥ कालस्य परिणामेन जरामृत्युनिमित्तजाः। रोगाः स्वाभाविका दृष्टाः स्वभावो निष्पतिक्रियः ॥ निर्दिष्टं दैवशब्देन कर्म यत् पौव्वेदैहिकम् । . हेतुस्तदपि कालेन रोगाणामुपलभ्यते ॥ न हि कर्मा महत् किञ्चित् फलं यस्य न भुज्यते । क्रियानाः कर्मजा रोगाः प्रशमं यान्ति तत्क्षयात् ॥ धीधृतिस्मृतिविभ्रंशः सम्प्राप्तिः कालकर्मणाम् । असामार्थागमश्चेति ज्ञातव्या दुःखहेतवः॥" इति ॥२१॥
For Private and Personal Use Only