________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६४ चरक-संहिता।
(तिस्लेषणीयः शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः स कालः। तत्रातिमात्रस्वलक्षणः कालः कालातियोगः, हीनस्वलक्षणः कालः कालायोगः, यथास्वलक्षणविपरीतलक्षणस्तु परमोन्मादिकानाञ्च प्रत्ययानां निषेवणम् ॥ अकालादेशसञ्चारौ मैत्री संक्लिष्टकम्मभिः। इन्द्रियोपक्रमोक्तस्य सवृत्तस्य च वर्जनम् ॥ ईर्ष्यामानभयक्रोध-लोभमोहमदभ्रमाः। तज्जं वा कर्म यत् क्लिष्टं क्लिष्टं यद् देहकम्मे च ॥ यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम्। प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम्॥ बुदद्या विषमविज्ञानं विषमञ्च प्रवर्तनम्। प्रशापराधं जानीयात् मनसो गोचरं हि तत् ॥ २०॥ ___ गङ्गाधरः--अथ कालातियोगायोगमिथ्यायोगानुदाहरति--शीतेत्यादि । वर्षणे यद्यपि शीतोष्णे द्वे विदेते तथापि मिश्रलक्षणखेन प्रत्येकतो भेदमादायोक्तं वषति। लक्षणं लिङ्गं क्रमेण बोध्यम् । हेमन्तः शीतलक्षणः । ग्रीष्म उष्णलक्षणः । वर्षास्तु वर्षलक्षणाः। एवं विलक्षणहेमन्तग्रीष्मवर्षात्मकः संवत्सरः कालः। नैतस्मादतिरिक्तः कालोऽस्ति। तमेव संवत्सरमात्य द्विपराधकाल आयुर्ब्रह्मविष्णादीनामुपदिश्यते। स महाकल्पः, शीतोष्णवर्षलक्षणातिरिक्तलक्षणकालाभावात्। शिशिरस्य हि शीतलक्षणवेन हेमन्तेन ग्रहणम् । वसन्तस्योष्णलक्षणवेन ग्रीष्मेण ग्रहणम्। शरदो वर्षलक्षणवेन वर्षासु ग्रहणमिति।
तस्य कालस्य योगत्रयमुदाहरति-तत्रातिमात्रेत्यादि। अतिमात्रस्खलक्षणः हेमन्तादिः काल: कालातियोगः। अतिमात्रशीतलक्षणो हिमश्च शिशिरश्च हिमशिशिरातियोगः। अतिमात्रोष्णलक्षणो वसन्तो ग्रीष्मश्च वसन्तग्रीष्मातियोगः। अतिमात्रदृष्टिलक्षणा वर्षाः शरच्च वर्षाशरदतियोगः। तेषामतिमात्रशीतोष्णवर्षणानामतियोगात् ते काला उक्ता अतियोगा इति। हीनखलक्षणेत्यादि। हीनखलक्षणस्तु हेमन्तादिः कालः कालायोगः। कालस्य सर्वशो योगाभावासम्भवाद्धीनयोग एव कालायोग उक्तः। हीनशीतलक्षणो हेमन्तः शिशिरश्च तयोरयोगः । हीनोष्णलक्षणो वसन्तो ग्रीष्मश्च तयोरयोगः।
चक्रपाणिः-कालातियोगादीन् दर्शयति-शीतोष्णेत्यादि।-अतिमात्रस्वलक्षणोऽतिमात्र. शीतादिः,यथास्वलक्षणात् शीतादेः विपरीतलक्षण, यथा-- हेमन्ते वर्षणं वर्षासु शीतमित्यादि ॥२१॥
For Private and Personal Use Only