________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः ]
सूत्रस्थानम् ।
५६१
कर्म वाङ्मनः शरोरप्रवृत्तिः । तत्र वाङ्मनः शरीरातिप्रवृत्तिरतियोगः, सर्व्वशोऽप्रवृत्तिरयोगः, सूच कानृताकाल- कलह । प्रियान्ड (नुपच रपरूष वचनादिर्वातिथ्यायोगः ।
I
गङ्गाधरः- शेषाणां व्याधीनां हेतुस्तु बुद्धिभ्रंशाज्जातस्य कम्मणोऽतियोगायोगमिथ्यायोगात्मकः प्रज्ञापराव इत्यतोऽनन्तरं कर्म्मणोऽतियोगादीन उदाहक चाह - कम्मेत्यादि । वाङ्मनःशरीरप्रवृत्तिः कम्मे क्रिया । तत्र वाग्देहप्रवृत्तिश्चेष्टा । न तु मनःप्रवृत्तिः । गौतमश्चाक्षपाद उवाच - "प्रवृत्तिर्वाग बुद्धिशरीरारम्भः " व्याख्यातञ्चेदं सूत्रं वात्स्यायनंन - मनोऽत्र बुद्धिरित्यभिप्र ेतम् | बुध्यतेऽनेनेति बुद्धिः । सोऽयमारम्भः शरीरेण वाचा मनसा च पुण्यः पापश्च दशविधः । तत्र वाचाचय्र्यते यत् सत्यं हितं प्रियं स्वाध्यायश्चेति चत्वारि कम्र्माणि येनारम्भेण स वाचारम्भः शुभः । शरीरेण दानं परित्राणं परिचरणञ्चेति त्रीणि कर्माणि येनारम्भेण स शरीरारम्भः । मनसा चाचर्यते । दया चास्पृहा च श्रद्धा चेति त्रीणि कर्माणि येनारम्भेण स मानस आरम्भः शुभः । इति दशविधः पुण्य आरम्भः । पापस्तु वाचारम्भः खल्वनृतपरुषसूचना सम्बन्धवचनादीनाम् । शरीरारम्भस्तु हिंसास्तेयप्रतिषिद्वमै थुनादीनाम् । मनसारम्भः पुनः परद्रोहपरद्रव्याभीप्सानास्तिक्यादीनाम् । इति पापानां कणां हेतुर्वाग्देहमनसामतिप्रवृत्तिः कम्पेणोऽतियोगः । तेषामेव सर्व्वशोऽप्रवृत्तिः कर्म्मणोऽयोगः ।
एषां प्रत्येकं मिथ्यायोगमाह-सूचकेत्यादि । सूचकं खलोक्तिः । अनृतमसत्यवचनम् | अकालवचनं यस्मिन् काले यद्वक्तव्यं तन्नोक्त्वा तदितरका ले वचनम् । कलहवचनं स्फुटम् । अप्रियवचनं कटूक्तिः । अवद्धवचनमसम्बन्धवचनम् ; यस्मिन् यद्वचनं नार्हति तस्मिंस्तदवचनं सततमेव वावचनम् । असात्मेन्द्रियार्थस्य कर्त्तुं समर्थः ; यतश्चक्षुरादीनां प्रतिनियतान्येवोपवातकान्यतिभास्वररूपादीनि, ततश्च स्पर्शेन्द्रिय-व्याप्तनापि नैकस्पर्शनेन्द्रियत्वं चक्षुरादीनाम्, एकत्वे हे केन्द्रियांपघातकमन्येषामप्युपघातकं स्यादिति मन्तव्यम् । सात्म्योपशययोरेकार्थतां दर्शयति- सात्मार्थी हुनप शार्थ इति । एतेन, अनुपरायेनेन्द्रियार्थसंयोगं दर्शयित्वाऽसात्मेन द्वयार्थसंयोग इति संज्ञाकरणमविरुद्धमिति दर्शितं भवति ॥ १८ ॥
चक्रपाणिः - अर्थानामयोगातियोगमिथ्यायोगानभिधाय कर्म्मणस्तानाह- कर्मेत्यादि । अत्र यद्यपि भूरिप्रधानशारीररोगकतं त्वेन पूर्वे शारीरमेव कर्मासात्म्यमभिधातुं युज्यते, तथाप्यल्प७१
For Private and Personal Use Only