________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६०
चरक-संहिता।
[तिषणीयः ऽनुपशयाथः। इत्येकमायतनं रोगाणां व्याख्यातम् । नैप सर्वरोगस्य हेतुः। वक्ष्यते हि कतिधापुरुपीये-“अत्युग्रशब्दश्रवणात् श्रवणात् सर्वशो न च। शब्दानाञ्चातिहीनानां भवन्ति श्रवणाज्जड़ाः ॥ परुषोद्भीपणाशस्ताप्रियव्यसनसूचकैः । शब्दैः श्रवणसंयोगो मिथ्यायोगः स उच्यते ।। असंस्पर्शीऽतिसंस्पर्शी हीनसंस्पर्श एव च। स्पृश्यानां संग्रहेणोक्तः स्पर्शनेन्द्रियबाधकः ॥ यो भूतविषवातानामकालेनागतश्च यः। स्नेहशीतोष्णसंस्पर्शी मिथ्यायोगः स उच्यते ॥ रूपाणां भास्वतां दृष्टिविनश्यति हि दर्शनात्। दर्शनाचातिसूक्ष्माणां सर्वशश्चाप्यदर्शनात् ॥ द्विष्टभैरवनीभत्स-दरातिक्लिष्टदर्शनात् । ताम: सानाच रूपाणां मिथ्यायोगः स उच्यते॥ अत्यादानमनादानमोकसात्म्यादिभिश्च यत्। रसाना विषमादानमल्पादानश्च दूपणम् ॥ अति. मृद्वतितीक्ष्णानां गन्धानामुपसेवनम् । असेवन सव्व शश्च घ्राणेन्द्रियविनाशनम् ॥ पूतिभूतविषद्विष्टा गन्धा ये चाप्यनार्त्तवाः। तैर्गन्धैर्घाणसंयोगो मिथ्यायोगः स उच्यते॥ इत्यसात्म्यार्थसंयोगस्त्रिविधो दोपकोपनः। असात्म्यमिति तद्विद्याद यन्न याति सहात्मताम् ।। मिथ्यात्ययोगहीनेभ्यो यो व्याधिरुपजायते । शब्दादीनां स विज्ञ यो व्याधिरैन्द्रियको बुधैः ॥” इति । असात्म्याथसेवनन्तु न खलु बुद्धिभ्रंशमन्तरेण सम्भवति । ततो बुद्धेतियोगायोगमिथ्यायोगेष्वन्तर्भवन्नप्यसात्म्येन्द्रियार्थसंयोगो नियमत एव ऐन्द्रियकव्याधीनां हेतुरित्यतः पृथगुक्तः ॥ १८ ॥
तिष्टति, तावन्तं देशं मनोऽपि भ्रमात प्रत्यक्षेणार्थग्रहणार्थ, तेन, यस्मिन यदा प्रदेशे मनो वर्तते, तदा तेन प्रदेशेन चक्षुरादिरूपेणार्थ गृह्णाति, न युगपज्ज्ञानोत्पत्तिः ; प्रकृते योजयतितस्मादित्यादि। व्यापकश्चासौ स्पर्शश्चेति व्यापकस्पर्शस्तेन कृतस्तन्निबन्धन', सर्वेन्द्रियाणां भावविशेषः स्वभावविशेषोऽर्थग्रहणकारणीभूतः स्पर्श इत्यर्थः, यमधिकृत्योक्तम् -- "स्पर्शनेन्द्रियसंस्पर्शः स्पर्शी मानस एव च। विविधसुखदुःखानां वेदनानां प्रवर्तकः ॥ इति ; अन श्लोके स्पर्शनसम्बन्धकृतः सॉन्द्रयस्पर्शः स्पर्शनेन्द्रिय-संस्पर्श-शब्देनोक्तः, मानसस्तु स्पर्शश्चिन्त्येन विषयेण सतापि सम्भवतीति तत्रैव व्याख्येयम्। विशेष इत्यत्रातीति शेषः ; सोऽयमेकस्येन्द्रियव्यापकस्य स्पर्शस्यैकरूपोऽसात्म्योन्द्रयार्थसंयोगः। अनुपशयादिति दुःखक त्वात्, पञ्चविधः सन् चक्षुरसात्म्योन्द्रयार्थसंयोगो धागासात्म्योन्द्रयार्थसंयोग इत्यादिरूपः पुनस्त्रिविधविकल्पो भवति अयोगातियोगमिथ्यायोगेनेति भावः ; एवन्चैकप्रकारस्त्रिप्रकारम्तथा पञ्चदशप्रकारः असात्म्योन्द्रयार्थसंयोग उक्तो भवति । अनुपशयशब्देन चक्षुराद्यनुपशयविशेषः ; अन्नासात्म्येन्द्रियार्थसंयोगस्य पञ्चविधत्वं हेतोपदेशाद बोद्धव्यम्, न हेवकरूपोऽनुपशयः पञ्चविधत्वम्
For Private and Personal Use Only