________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६२ चरक-संहिता।
(तिस्रेषणोयः भयशोकक्रोधलोभमोहमानेामिथ्यादर्शनादिर्मानसो मिथ्यायोगः। वेगविधारणोदीरण-विषमस्खलनगमन-पतनाङ्गप्रणिधानाङ्गप्रदूषणप्रहारावमर्दनप्राणोपरोधसंक्लेशनादिः शारीरो मिथ्यायोगः। संग्रहेण चातियोगायोगवज्ज कर्म वाङ्मनःशरीरजमहितमनुपदिष्टं यत्तच्च मिथ्यायोगं विद्यादिति ॥१६॥ अनुपचारवचनं प्रतिकूलवचनम् । परुपवचनं ककशोक्तिः। आदिना प्रलापादिवचनम् । इति वामिथ्यायोगः। भयेत्यादि मनोमिथ्यायोगः । मोहोऽज्ञानम्। मानश्चित्तोन्नतिः। मिथ्यादर्शनं नास्तिक्यबुद्धिः । आदिना अतत्त्वज्ञानम्। इति मनसः कर्मणो मिथ्यायोगः। शारीरमिथ्यायोगमाहवेगविधारणेत्यादि। वेगानामविधार्याणां मूत्रपुरीपादिवेगानां प्रवृत्तानां धारणमनुपस्थितानामुदीरणम् । विषमशब्दस्याङ्गप्रणिधानान्तैः सहान्वयः । विषमस्खलनं समस्थाने विषमपतनं विषमगमनमयथावद्गमनम् । विषमपतनमुच्चैःस्थानात् । विषमाङ्गप्रणिधानं वैषम्येणाङ्गविक्षेपादिकम् । अङ्गप्रदूषणमतिकण्डूयनादिभिः प्रदोपः। अङ्गप्रहारो दण्डादिभिरुपघातः। अङ्गाव. मद्देनमाविमः। प्राणोपरोधो निश्वासप्रश्वासधारणम्। संक्लेशनं संक्लेशो व्रतोपवासादिभिः। आदिना विषमनृत्यादीनां ग्रहणम् । इति शारीरः कर्मणो मिथ्यायोगः । अनुक्तमिथ्यायोगमुपसंहरति-संग्रहेणेत्यादि । इहोक्तवाङ्मनःशरीरातियोगायोगवनं यदहितमिह च परत्राहितस्य पापस्य कारणमनुपदिष्टं तच्च सर्व कर्मणो मिथ्यायोगं विद्यात् ।। १९ ।। त्वेन वाङ्मानसे कर्मणी पूर्वमुक्त', प्रत्येकमिथ्यायोगकथने तु प्राधान्यात् शारीर एव मिथ्यायोगः प्रथमं दर्शितः ; अनातियोगरूपातिप्रवृत्तिस्तथाऽयोगरूपाऽप्रवृत्तिर्विहितानां कायवाङ्मनःकर्मणां बोद्ध व्या, अविहिताचरणस्य तु सर्वस्य मिध्यायोगत्वेन वक्तव्यत्वात्। वेगोदीरणमप्राप्तवेगोदीरणम् ; विषमशब्दोऽङ्गप्रणिधानान्तः संबध्यते, अङ्गदृपणमतिकण्डूयनादिभिः ; संक्लेशनं मद्यातपजलसेवादिभिः ; अबद्धवचनम् असम्बद्धमसत्यवाक्यं यावत् तावत् कीर्तनम् ; अनुपचारमननुकूलवचनम् ; इह चानृतवचनादयोऽधर्मद्वारेण रोगकराः।
अनुक्तमिथ्यायोगसंग्रहणार्थमाह --संग्रहेणेत्यादि। अहितमिह जन्मनि, अनुपदिशमित्यनेन परलोकेऽधर्महेतुतया पापकारकं परदारसेवादि ग्राहयति । एतेन यदुच्यते-अधर्मस्य अग्रहात् न्यूनमेतदायतनमिति, तन्न भवति ; शारीरमानसिकवाचनिककर्ममिथ्यायोगेनैवाधर्मोत्पादावान्तरव्यापारेणैवाधर्मजन्यानां विकाराणां क्रियमाणत्वात, यथााग्नहोमेन स्वर्गः क्रियते
For Private and Personal Use Only