________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः ] सूत्रस्थानम् ।
४५ सत्त्वमात्मा शरीरश्च त्रयमेतस्त्रिदण्डवत् ।
लोकस्तिष्ठति संयोगात्तत्र सर्व प्रतिष्ठितम् ॥ गङ्गाधरः--अथ द्रवयसामान्योदाहरणमायुवेद क्रियाधिकरणोपदेशेन दर्शयति ;-सत्तमात्मेत्यादि । सत्तुं सत्तुसंज्ञकं मनः। आत्मा सत्तादित्रिगुणलक्षणमव्यक्तं नाम चतुविशं तत्तम् । शरीरं पञ्चमहाभूतविकारसमुदायात्मकं चेतनाधिष्ठानभूतं तच्च शुक्रशोणितादिसम्भूतं स्थूलं गृह्यते न वाहङ्गारिकेन्द्रियादिमत् मूक्ष्मं क्रियानधिकरणत्वात् । अत्र सत्तादिसङख्य यनिद्दे शे सङ रव्यालाभेऽपि द्वयोः संयोगे लोकत्वनिरासायाह, त्रयमिति। तेनैतत्रयं समस्तं संयोगामिलितं लोको लोकाभिधः संस्तिष्ठति स्थित्यादिक्रियासमर्थत्वेन वर्तते। लोक दीप्तौ कृद्योगे रूपसिद्धिः। लोकाभिशनात् जगत्साम्यं ख्यापितम् । त्रिदण्डबदिति। यथा त्रयो दण्डा मिलिताः समुदायात्मको विशिष्टखिदण्डाख्यो भावविशेषस्तिष्ठति वस्त्वन्तरधारणादिक्रियायां स्वयमवस्थानक्रियायाञ्च समर्थ त्वेन वर्तते। एतेनैतदुक्तं भवति। यथा दण्डत्रयं परस्परं संयोगेन धारणावस्थानसमर्थ भवति, न च संयोगाभावान वा द्वयोः संयोगात्। तथा सत्त्वात्मशरीराणीति त्रयं परस्परं संयोगान्मिलितं लोकाख्यः सन् स्वयमवस्थानवस्वन्तरधारणादिसमर्थो भवति न संयोगाभावान्न च द्वयोः संयोगात्। मृतस्य सूक्ष्मातिवाहिकशरीरं पारलौकिकं वैदिकक्रियाधिकरणत्वाभावानोक्त शरीरेन्द्रियसत्तात्मसंयोगोधारि जीवितमायुरुक्तं तत्संयोगवान् सत्तात्मशरीरसमुदायो लोक इत्याधाराधेयभावाभ्यां लोकायुयोर्भदः। यच्चायुलक्षणे शरीरात् पृथगिन्द्रियमुक्तं न चात्रेन्द्रियमुक्तं शरीरग्रहणेन गृहीतं तत्तु खल्वायुल क्षणे यदिन्द्रियग्रहणं रुक्षादीन् गुणान् दृष्ट्वा चित्रको वायुधिको योऽनुमितः, स च चित्रक उपयुक्तो वातं वर्द्धयति, गुणास्तु गुणानेव जनयन्तोऽतिवर्द्धयन्ति । सामान्यञ्च वृद्धिकारणलक्षणं, न साक्षात् वृद्धिकारणमिति प्रागेवोक्तम् ; एवं विशेषेऽपि । अयञ्च सामान्यविशेषवादो ग्रन्थविस्तरभयादायुर्वेदोपयुक्तधम्ममात्र णोक्तः, विस्तरस्त्वस्य वैशेषिके बोद्धव्यः ॥ १८॥
चक्रपाणि:-सम्प्रति सामान्य विशेषावभिधाय उद्देशक्रमानुरोधात् गुणेऽभिधातव्ये, गुणेषु प्रधानभूतमायुर्वेदोपकायें सत्त्वात्मशरीरसंयोगं वक्त माह-सत्त्वमित्यादि।-कंवा सामानवविशेषाभ्यामेव हेतुलिङ्गौषधानि दशितानि, सामानविशेषवत एव सर्वत्र कारणत्वात् लिङ्गत्वाञ्च, एतावदेव विचार्यमाणं तन्वं भवति, अधिकरणञ्च नोक्तमतः सत्त्वादिमेलकं हेत्वाद्यधिकरणमाह,
For Private and Personal Use Only