________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४ चरक-संहिता।
दीर्घ जीबितीयः ऽभिहितौ । वैशेपिके च निःश्रेयसाथ यो सामान्यविशेषौ भवतस्तयोरेव साधर्मवैधाभ्यां तत्तज्ञानं सम्भवति। सर्वान्तर्यामि ब्रह्म तु सामान्यं तत्तत्त्वमेव तस्य तु तत्तुशानं न सम्भवति। विकृतांश विहाय प्रकृतांशशानं हि भावानां तत्तज्ञानम् । तञ्च ब्रह्मणो नास्तीत्यस्मादलौकिको नाभिहितौ । तौ प्रोक्तो यौ लौकिको सामान्यविशेषो, तो द्रवयगुणकर्मसभवायेष्वन्तर्भूतावेव। आयुववेदेऽनुपयोगित्वाद्व शेषिके च निष्प्रयोजनवादलौकिकसामान्यविशेषौ नोक्तौ निष्प्रयोजनत्ताच्च व नाहकारिकाणीन्द्रियाण्यहङ्कारो महानवयक्तस्थात्रयो गुणाः सत्तादयश्चोक्तास्तस्माल्लोके पडेव पदार्था इत्येवं नियमो न, तथा षोडशैव पदार्था इत्येवं नियमश्च न। धातुसाम्यवैषम्यप्रयोजनमायुवादिकं निःश्रेयसाधिगमप्रयोजनञ्च वैशेषिक, षट्पदार्थ ज्ञानेनैव सिध्यति। तथा पोडशपदार्थ ज्ञानेनैव निःश्रेयसाधिगमः सिध्यतीति शेषाः पदार्था नोक्ता आयुर्वेदवैशेपिकान्वीक्षिकीषु न तु प्रतिषिद्धा इति न कपिलवचन विरुध्यते । सामान्यविशेषवदिति वचनेनैकत्वं द्रवयगुणकर्मणां प्रतिपिद्धं न द्रव्यमेकविधं न गुण एकविधो न च कम्मकविधमिति ॥१८॥
लक्षणेनानुक्ता अपि शास्त्रव्यवहारात् कर्मशब्देनोच्यन्ते ; तत स्वप्नः स्वकाराणादेव चीयमानस्य कफस्य क्षयकारणशरीरपरिस्पन्दातिनिरोधकत्वेन वृद्धिकर उच्यते, न तु स्वप्नः साक्षात् श्मवृद्धिं करोति । एवमास्यादावपि चिन्तनीयम्। यग्न त्वेकं कारणं चिन्तयितुं न पाय्यते तत्र प्रभाव एव वणनीयः।
ननु मांसं मांसं वर्द्धयति सामान्याद् विशेषाञ्च वातं क्षपयति, तत् कथं युगपद्विरुद्धाथद्वयक त्वं मांसस्य ? न हि देवदत्तो यदैव कुम्भं करोति तदैव काण्डमपि, नैवं क्रियावतामयं धर्मः, नाक्रियावतामिति ; यथा हि-शब्दो युगपदनेकानेव शब्दान् एककालमारभते तथा अग्नि: प्रकाशदाही युगपत् करोति ; अत एवोक्तमाचार्येण "तस्मादपजं सम्यगवचार्यमाणं युगपदूनातिरक्तानां धातूनां साम्यकरं भवति, अधिकमपकर्षति न्यूनमाप्याययति"। ___ यदुच्यते क्षीयमाणधातोर्व द्धस्य तथा बहुदोषस्य समानगुणोऽप्याहारो न वृद्धिहेतुः, तथा ग्रीष्मे च मधुरादिना समानेनापि न कफादिवृद्धिरित्यादि ; तस प्रतिबन्धकादीनां जराबहुदोषत्वग्रीष्मोष्णत्वादीनां विद्यमानत्वान्न सामान्यं वर्द्धकम्, असति च विरोधके सामान्यं वृद्धिकारणमिति सिद्धान्तः, तेन न काचित् क्षतिः ; किंवा वृद्धादीनां सामान्येनाहारेण क्रियते एव बृद्धिः, परन्तु बलवता क्षयहेतुना आधीयमानक्षये पुरुषे सा बृद्धि!पलभ्यते। ____ अत्र च द्रव्यसामान्यमेव धातूनां द्रब्यरूपाणां वद्धकं न गुणसामान्यं, गुणानां द्रव्यानराम्भकत्वात्, गुणसामानयात् तु तद् णाश्रयं द्रव्यमनुमीयते, तञ्च द्रव्यं धातुवर्धक भवति, यथा
For Private and Personal Use Only