________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्याचः
सूत्रस्थानम् । सह युक्तनापृथग्भावेन परिणामविशेषस्तदिदं मनस्त्वमपि समवायस्तेषां सत्ताभूतमेव वस्तुत्वमिति । एवं रूपरसगन्धस्पर्शा आहङ्गारिकत्रिगुणसमवायादपृथग्भूतस्वरूपेण निवृत्तास्तेषां समवायविशेषा एव रूपत्वादयः सत्ता एव । एवं पञ्चविधकर्मणां कर्मत्वमपि सत्तेव ; अथैषामपादानानि यानि तानि तु खलुन द्रव्यं न रूपरसादिगुणो नोत्क्षेपणादि कर्म च न च समवायः । परन्तु यथास्वमपादानमन्त्य एव विशेषः, सर्वेषां तेषामप्यन्तःप्रविष्टमेकं सोपादानं सदेव ब्रह्म सर्वव्यापकं सामान्यमिति षड़े व पदार्था न तु चत्वारो द्रव्यगुणकर्मसमवायाः । सामान्यविशेषयोनिखिलयोस्तेषु चतुव॑न्तर्भावाभावादिति । तहि कथं न षट्पदार्थनियमो न च षोड़शपदार्थ नियम इति कपिलवचनमुपपद्यत इति । यत उक्त कार्य कारणं सामान्यविशेषवदिति; कायं हि न प्रसिद्ध एक एव भावः कश्चिदस्ति । वक्ष्यते चास्मिंस्तत्र “नेकः प्रवर्तते भावः” इति । अनेकोपादानकं हि कार्य नवद्रवयं सप्तदशगुणं पञ्चविधञ्च कम्प॑ति । सत्यमेतत् । यत्पुनवशेषिकशासनमक्तं कणादैन यच्चान्वीक्षिकीशासनं गौतमेन यच्चायुर्वेदशासनं तत्सर्व लौकिकपदार्थोपदेशशास्त्रम्। लोके तु यत्सामान्यं यश्च विशेष श्चिकित्सायामुपयोगार्थं भवति तो सामान्यविशेषावायुबवेदे वृद्धा कवहासपृथक्त्वहेतुतया
केचित् सामान्यं द्विविधमिच्छन्ति, उभयवृत्ति तथैकवृत्ति च। तत्र मांसं मांसवर्द्धकम् उभयवृत्तिसामान्यात्, मांसत्वं हि पोष्ये पोषके च गतत्वात् उभयवृत्ति, एकवृत्ति तु यथा घृतमग्निकरं, तथा धावनादिकर्म वातकरं, तथाऽऽस्यादि कफकरम् एतद्धि सव्वं न वर्द्धनीयेन समानं किन्तु प्रभावाद्वर्द्धक, प्रभावश्च घृतत्वधावनत्वादिरेव, स चैकवृत्तिसामान्यरूप: ; तेन नाबापि सामान्यमेव वृद्धि कारणमिति त्रु वते। अस्मिंस्तु पक्षे अनुभयवृत्तिसामान्यं विशेष एव भवति, तथा समानमसमानञ्च वृद्धिकारणं भवतीति न किञ्चित् सामान्यस्योक्त स्यात्, अस्मन्मते तु सामान्यं वृद्धौ कारणमेव भवतीति सामान्यं वृद्धिकारणत्वेन नियम्यते, न वृद्धिः सामान्यकारणत्वेनैवेति नियम्यते, तेनासमानादपि वृद्धिर्भवति निर्दोषा।
यत्तूच्यते, कर्मसामान्यं नेह तन्त्र वृद्धिकारणमस्ति, यतो न धावनेन वायुः समान इति, अत एवाचार्येण द्रव्यसामान्यमुक्त, “मांसमाप्यारयते मांसेन" इत्यादिना, तथा “सामान्यगुणानामाहारविकाराणामुपयोगः” इत्यादिना गुणसामान्यमुक्तम् ; नैवं कर्मसामान्यमुक्त, वचनं हि “कापि यद् यस्य धातो द्धिकरं तत्तदा सेव्यम्" इति, न तत्र सामान्योपग्रहः कृतः। अब ब्रूमः--कम्मणां प्रायः प्रभावेणैव वृद्धिहेतुत्वात् सामान्यानुपग्रहः कृतः, न च कार्मसामान्याभावात् ; यत: क्रियावतो वातस्य क्रियावता व्यायामादियुक्त न शरीरेण वृद्धिः क्रियते निष्क्रियतया चास्य वातस्य हासः । स्वप्नादयस्तु “संयोगे च विभागे च” इत्यनेन वक्ष्यमाण
For Private and Personal Use Only