________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२
चरक-संहिता। दोर्घञ्जीवितीयः त्रिवृत्त्रिद्भ तैस्तेजोऽबन्नैरुपाहितं परमवयोमैव परमात्मा चक्रवभ्रमणशील: कालो बभूवेति कालारम्भकं त्रिविद्भूत तेजोऽवन्न परमव्योम चेति । स च कालो निलिङ्ग एवाप्रमेयस्तदारब्धस्वयं संवत्सरः कालः शीतोष्णवर्षलक्षणः षडङ्गऋतुभेदेन कार्य कारणसंशा द्रवयमध्येऽयं कालो निर्दिष्टः प्रमेयखात् । एतत् . कालस्य वस्तुनो वस्तुत्वं कालत्वं समवाय एव सत्ता। तत्कालस्य सत्तादिगुणयोगे समवायात् परिणामविशेष एष काल इति । एवं क्षेत्रज्ञानुभवेशे कालानुप्रवेशे प्रधानमभिव्यक्तसत्त्वादित्रिगुणलक्षणं भूत्वा समत्रिमुणलक्षणमवयक्तं नामायं द्रवयसंश आत्मा बभूव । तदात्मत्वञ्च समवायरूपा सत्ता कालक्षेत्राप्रधानानां हि समवायादवयक्तस्वरूपनिवृत्तिरिति । एवं दिगपि वैकारिकात् सात्तिकादहङ्कारादिन्द्रियादीनां देवतासगें आकाशस्य देवता दिगजाता, तया दिशा सत्तादिगुणयोगादारब्धा एता दिशो दश द्रव्यमध्ये निर्दिष्टाः प्राच्यादय इति, दिक्त्वमपि वस्तुत्वं समवाय एव सत्ता। तस्या दिशो गुणैः सहयोगेऽपृथग्भावेन परिणामविशेषा एता.दिश इति। मनश्चेदं शारीरं द्रवयमध्ये यनिर्दिष्टं तदप्याहङ्गारिकमनसः स्थूलशरीराभिनिवृत्तौ खल्वात्मना कृतैः सत्त्वरजस्तमोभिर्विकृतीभृतगुणैः
कथमनेकासु व्यक्तिषु सामान्यमेकबुद्धिमत्यभिचारिणी करोतीत्याह, तुल्याथता हीत्यादि।--- तुल्यार्थता एकसामान्यरूपार्थानुयोगिता, एतेन यस्मात् भिन्नासु व्यक्तिषु सामान्यमेकरूपसम्बन्धमस्ति ततस्तदनेकार्थावलम्बा सत्यपि व्यक्तिभेदे एकबुद्धियुक्तति भावः ।
विशेषस्तु विपर्यय इति अतुल्यार्थता विशेषत्वं, तेन गोगजयोरतुल्यगोत्वगजत्वरूपार्थयोः पृथगबुद्धियुक्त वेति दर्शितं भवति ।
अन्ये तु व्याख्यानयन्ति, यत्, त्रिविधं सामान्य, विशेषश्च त्रिविधः. यथा--द्रव्यगोचरो गुणगोचरः कर्मगोचरश्च ; तत्र सर्व्वदेत्यादिना द्रव्यसामान्यमुच्यते, सामान्यमेकत्वकरमित्यनेन गुणसामान्य, यथा-पयःशुक्रोभिन्नजातीययोरपि मधुरत्वादि सामान्य ततै कतां करोति, एवं विशेषेऽप्युदाहाय्यं ; तुल्यार्थतेत्यादिना तु कर्मसामान्यं निगद्यते, आस्यारूपं कर्म न श्ष्म णा समानमपि तु पानीयादिकफसमानद्रव्यार्थक्रियाकारित्वात् कफवर्द्धकरूपतया आस्यापि कफसमानेत्युच्यते, एवं स्वप्नादावपि कर्मणि बोद्धव्यं ; तदेतत् भट्टारहरिचन्द्रेणैव दूषितं, यतः सर्वदेत्यनेनैव लक्षणेन त्रिविधमपि सामान्यं लभ्यते ; तेनास्मिन् पक्षे “सामान्यमेकत्वकरम्" इत्यायवाच्यं स्यादिति कृत्वा, अन्ये तु पश्यन्ति ; यत् त्रिविधं सामान्यम्--अत्यन्तसामान्यं मध्यसामान्यमेकदेशसामान्यञ्च, तत्र “सर्वदा" इत्यादिना अत्यन्तसामान्यमुच्यते, सामान्यमेकत्वकरमित्यनेन मध्यसामान्यं, तुल्यार्थता हीत्यादिना एकदेशसामान्यम्, एतदपि वैविध्यकथनं नातिप्रयोजनमसङ्गतलक्षणञ्चेति नातिश्रद्धाकरम् ।
For Private and Personal Use Only