________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
सूत्रस्थानम् । सह तुल्यार्थ खं सामान्यम् । यथा पुरुषाणां पुरुषघटकं वस्तु सत्त्वात्मशरीरं तुल्यं तत्रिक द्रव्यभूत सामान्यम् । तत्र च यत्कृष्णवर्णादिगुणः स च गुणभूतं सामान्यम। यच कम्मे गमनादि तर कर्मभूतं सामान्यम । या तु सत्ता सदिति यतः यः खलु समवायः समानप्रसवात्मकः स समवायमूतं सामान्यमिति चतुविध सामान्यः । यच्चोक्तम्। सनित्यमवयवत् कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेष इति । स चाविशेषः सामान्यमेव पदार्थ तश्चतुष्वेव द्रव्यगुणकर्मसमवायेष्वन्तर्भूतं भवति नातिरिक्तम्। तत्र, सदिति। अस्तीति वस्तूच्यते। यन्नास्ति तदवस्तु । तद्वस्तु तत्तत्कार्यवस्तुनिष्ठो धम्मः। स च तत्तद्वस्वारम्भकं द्रवपञ्च गुणश्च कर्म च तथा समवायश्च जातिरूपो जन्मरूपश्च । नित्यवं निरुक्तं त्रिविधं निरुक्तत्रिविधकालपर्यन्तस्थायिवं क्रियाविशेष एव । अवयवत्त पुनरद्रव्यारब्यखं तदपि गुणानां प्रकृतिः सत्तादिगुण एव तत्सत्त्वादिगुणप्रकृतिकगुण एवाद्रव्यवत्त्वम् । भूतादेस्तामसस्याहङ्कारस्य प्रथम आरम्भः शब्दमात्रस्य ; ततः शब्दयात्रेणारब्ध आकाश एवं स्पर्शमात्रस्य तत आरम्भः ; स्पर्शमात्रेण वायुरारभ्यते । ततो रूपमात्रमारभ्यमाणं ज्योतिरारभते। ततो रसमात्रमारभ्यमाणमप आरभते। ततो गन्धमात्रमारभ्यमाणं पृथिवीमारभते । एवं कार्येति शेषः, तेन केवलसमानोपयोगात् धातुवृद्धया धातुवैषम्यं, केवलविशिष्टोपयोगाच्च धातुक्षयाद्वा धातुवैषम्यं, युगपत् समानविशिष्टद्रव्योपयोगात् प्रवृत्तिर्धातुसाम्यरूपा भवतीत्युक्त भवति ; तुशब्दः पूर्वपक्षादेकद्रव्योपयोगलक्षणरूपात् व्यावर्त्तयति ।
अथ किंलक्षणं तत् सामान्यं किंलक्षणो वा स विशेष इत्याह, सामान्यमित्यादि।-एकत्वकर. मेकत्वबुद्धिकरं, सामान्यं ; यदनेकासु भिन्नदेशकालासु गवादिव्यक्तिषु “अयं गौरयं गौः" इत्यादिप्रकारा एकाकारा बुद्धिस्तत सामान्य, न हि भिन्नासु व्यक्तिषु अभिन्न सामान्यमेकरूपं विनाऽभ्रान्ता एकाकारा बुद्धिर्भवतीति भावः। यथापि च “अयं पाचकोऽयं पाचकः” इति तथा “अयं शुक्लोऽयं शुक्लः" इतिप्रभृतिषु क्रियागुणादिसामान्यादेकरूपा बुद्धिस्तत्रापि सामान्यमेकक्रियागुणादिगतमेकरूपाध्यवसाये हेतुः, न ह्य कस्मिन् पाचके या क्रिया सा पाचकान्तरेऽपि, किं तर्हि तजातीया ; अतः क्रियासामान्यं तत्राप्येकत्वाध्यवसाये कारणम् ।
विशेषलक्षणं पृथक्त्वकृदिति व्यावृत्तबुद्धिकृत, तेन यद गोव्यक्तयन्तरापेक्षया एकबुद्धिकर्त्त तया गोत्वं सामान्यं, तदेव गोत्वम् अश्वाद्यपेक्षया ब्यावृत्तबुद्धिकर्त्त त्वात् अश्वादीन् प्रति विशेष इत्युक्त भवति ; तेन मांसत्वं मांसं प्रति मांसान्तरापेक्षया समानत्वात् वृद्धिकारणं भवति, तदेव तु मांसत्वं वातं प्रति विशेषरूपतया हासहेतुर्भवति, शोणितादीन् प्रति त्वविरोधविशेषत्वेन न तथा हासकारणं, गुणसामान्यात् तु वर्द्धकमपि मांसं शोणितादीनां भवति ।
For Private and Personal Use Only