________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(दीघजीवितीयः
चरक-संहिता। स पुमांश्च तनं तच्च तच्चाधिकरणं स्मृतम् ।।
वेदस्यास्य तदर्थ हि वेदोऽयं सम्प्रकाशितः ॥ १६ ॥ तदन्तश्चेतनानां वृक्षादीनां जीववतां प्रत्यक्षाणां वहिरिन्द्रियाभावेऽप्यभ्यन्तरेन्द्रियवत्तख्यापनार्थं लोकलञ्च तेषां सत्त्वात्मशरीरवत्त्वात् । यद्यायुलक्षणे इन्द्रियग्रहणं नाकाषी त् कथं वृक्षादीनां जीवनदर्शनेनाभ्यन्तरेन्द्रियवत्तानुमानमभविष्यत् । इन्द्रियग्रहणेन तु तेषां जीवनदर्शनेनाभ्यन्तरेन्द्रियमनुमीयते मनोग्रहणवत् । वाह्य प्रचरणवाभावात् तु वृक्षादयो न पश्यन्ति न जिवन्तीति । मनोग्रहणेन मनसोऽप्यनुमानं वृक्षादीनामात्मग्रहणेनात्मानुमान भवति जीवनलिङ्गात् । घटादीनान्तु जीवनलिङ्गाभाषान्नात्मेन्द्रियमनसामनुमानं भवति । आत्मेन्द्रियमनोलिङ्गाभावात् । तस्माद ब्रह्मादयः प्राणिनोऽपि वाह्य विषयग्राहकत्वाभावात् स्थूलशरीरस्थमनसा सुखदुःखानुभवेऽपि तत्प्रतिकारार्थं नायुर्वेदाधिकारिणो भवन्तीति ख्यापयितुमायुलक्षणे पृथगिन्द्रियमुक्तमिन्द्रियानुमेयायुर्हि वक्ष्यतेऽरिष्टाधिकारे इति कश्चित् । वस्तुतस्तु मृतपुरुषस्य परलोकगतस्य सूक्ष्मदेहवतः सत्त्वेन्द्रियादिमत्त्वेऽप्यायुष्मखवारणार्थ मूक्ष्मदेहव्यवच्छेदार्थ तत्र शरीरपदेन स्थूलदेहपरिग्रहार्थ मिन्द्रियं पृथगुक्तम् । अत्र तु मृतस्यापि लोकखवारणार्थ स्थूलदेहपरिग्रहार्थं शरीरमुक्तं न खिन्द्रियं पृथगुक्तमिति । त्रिदण्डवदिति दृष्टान्त कर्मसामयेन न तु फलभोगादिसाधम्मरण चेतनवाभावात् । नन्वस्तु लोकः सत्तात्मशरीरसमुदायात्मकस्तत्र सामान्यञ्च भवतु प्रत्येक सत्तमात्मा शरीरञ्च मिथः संयोगात्तु तेषां समुदायस्य कथं लोकाभिधानं लोके ह्याकाशादिक दिश्यते गुणाश्च शब्दादयः कर्म च । पुरुषे तु सत्त्वात्म
सस्वमित्यादि । सच्च मनः, चशब्दः समुच्चये, संख्येयनिर्देशादेव संख्यायां लब्धायां त्रयमिति पदं मिलितानामेव ग्रहणार्थम्, एतदित्यनन्तरोक्तनिर्देशः, त्रिदण्डः परस्परसंयोगविष्टतः कुम्भादिधारकस्तद्वत् ; एतेन यथा विदण्डान्यतमापाये * नावस्थानं तथा सत्त्वादीनामनातमापायेऽपि न लोकस्थितिरित्युक्त स्यात् ; लोकत आलोकत इति लोकः, तेनेह जङ्गमो भूतग्राम उच्यते । संयोगात् तिष्ठतीति परस्परोपग्राहकात् संयोगात् स्वार्थक्रियां कुर्वन् न विशकलितं + भवति । अब तु पृथगिन्द्रियग्रहणं न कृतं शरीरग्रहणेनैव गृहीतत्वान्, तत्र सर्वं प्रतिष्ठितमिति अस्मिन् लोके कर्मफलादि व्यवस्थितं, यद्वक्ष्यति-“अत्र कर्मफलञ्चात्र ज्ञानञ्चात्र प्रतिष्ठितम् । अब
* त्रिदण्डानामनयतमापायेऽपीति पाठान्तरम्। + विस्खलितमिति क्वाचित्कः पाठः ।
For Private and Personal Use Only