________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
५५७
सूत्रस्थानम् । गन्धादिघ्राणं मिथ्यायोगः। तथा रसानामत्यादानमतियोगः, अनादानमयोगः, मिथ्यायोगोराशिवजेम्बाहारविधिविशेषायतनेषु उपदेच्यते। तथातिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्___ भक्षणादिकर्मणा बहुकार्यहेतुखात् प्राक् स्पर्शाद्रसातियोगादीनाह-तथेत्यादि । रसानां मधुरादीनामत्यादानं भोजनादिना सततं ग्रहणं रसनार्थस्यातियोगः। रसानामनादानमयोगः; सर्वशो रसानामशनमक्षणपानलेहाभावः। मिथ्यायोग इति-रसानां मिथ्यायोगो राशिवज्जप्वाहारविधिविशेषायतनेषु विमानस्थाने रसविमानेऽध्याय उपदेक्ष्यते। तद्यथा-प्रकृतिकरणसंयोगदेशकालोपयोगसंस्थोपयोक्त राशीनामाहारविधिविशेषायतनानामष्टानां मध्ये राशिं वर्जयित्वा प्रकृत्यादीनां सप्तानां विपर्ययेणाहारस्योपयोगः रसनार्थस्य मिथ्यायोगः। राशेः परिमाणलक्षणस्य विपर्ययेणोपयोगोऽतियोगः स्यात् । सर्वशोऽनादानमल्पमात्रेण वा रसानामादानमयोगः स्यात् । अतो मिथ्यायोगासम्भवादाह-राशिवज्जष्विति। राशिर्वक्ष्यते---"राशिस्तु सर्वग्रहपरिग्रही मात्राऽमात्राफलविनिश्चयार्थः प्रकृतः। तत्र सर्वस्याहारस्य प्रमाणग्रहणमेकपिण्डेन सव्वग्रहः। परिग्रहश्च पुनः प्रमाणग्रहणमेकैकलेनाहारद्रव्याणाम् । सर्वस्य ग्रहः सर्वग्रहः । सर्वतश्च ग्रहः परिग्रह उच्यते।” इति रसानां करणादिना योगवदाहारादिना च योगः स्यादिति। अत आहारमात्रस्य योगो नोक्तः।
पारिशेष्यात् सबै न्द्रियव्यापकसाब स्पर्शनेन्द्रियस्यार्थेन सह त्रीन् दीना, पूति अत्यर्थक्लिन्न, विपयुक्तः पवनो विषपवना, कुणपः शवः। रसानामिति रससहितानां द्रव्याणाम् । इहानादानमिति कुर्वन् । हीनयोगोऽपि रसानां विकारकर इति दर्शयति ; आहारविधिविशेषायतनानि रसविमाने वक्ष्यमाणानि "प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोटमानि" ; तत्र राशिवजेंग्वितिवचनेन राशिं पृथक् करोति,--राशेराहारस्य परिमाणरूपस्य यो दोप:--हीनमात्रत्वमतिमात्रत्वं वा, तस्यातियोगायोगाभ्यामेव गृहीतत्वात्, न मिथ्यायोगो राशेः सम्भवति ; उक्त हि ---"राशिः पुनर्मात्राऽमात्राफलविनिश्चयार्थः” इति। प्रकृत्यादीनान्तु दोषादाहारस्य मिथ्यायोग एव परं सम्भवति, यतः, प्रकृतिविरुद्धानां माषादीनां भोजनं मिथ्यायोग एवाहारस्य भवति ; एवं संस्कारविरुद्धशक्त पिण्डिकेऽपि मिथ्यायोग एव, तथा संयोगविरुद्वसमटतमधुमर्पिरुपयोगेऽपि, एवं कालादिविरुद्धोदाहरणमपि रसविमाने प्रतिपादितं सर्वे मिथ्यायोगरूपमेव, तेषामयोगातियोगनिरपेक्षाणामेव दोषकतत्वात् । शीतोष्णादीनामित्यादि। यद्यपि शीतोष्णादीनामभ्यगादीनाञ्च हीनयोगोऽपि रोगकरस्तथापि
For Private and Personal Use Only