________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५८ चरक-संहिता।
[तिषणोयः सादनादीनच्चात्युपसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, * विषम-स्थानाभिघाताशुचि-भूत-संस्पर्शादयश्चेति मिथ्यायोगः ॥ १७॥
तत्र के स्पर्शनेन्द्रियमिन्द्रियव्यापकं चेतासमवायि स्पर्शनव्याप्तेापकमपि च चेतः। योगानुदाहरति-तथेत्यादि । अतिशब्दस्य शीतोष्णाभ्यां सहान्वयः । स्पर्शानामिति न कृता स्पृश्यानामित्युक्त्या शापितञ्चेदम् - शब्दादयो ह्या द्रव्यधर्मा नान्तरेण धर्मिणं वर्त्तन्ते। तस्माद्धर्मिणामुपादानेनोपचारात् तदिन्द्रियग्राह्याणामर्थानां ग्रहण सिद्धमिति। अतिशीतात्युप्णानां स्पृश्यानां स्पर्शनमात्रमतियोगः। स्नानादीनामपि चातिमात्रमुपसेवनं स्पर्शनेन्द्रियार्थस्यातियोगः। सर्वशः स्पृश्यानामसेवनमयोगः स्पर्शनेन्द्रियार्थस्य। विषमस्थान. स्याभिघातस्याशुचिद्रव्यस्य भूतानाञ्च स्पर्शादयः स्पर्शाः स्पर्शनेन्द्रियार्थस्य मिथ्यायोग इति ॥१७॥ • गङ्गाधरः--इत्येवं पञ्चानामिन्द्रियाणां पञ्चभिः स्वस्वाथः सह त्रिविधयोगस्यैकां संज्ञामाह-तत्रेत्यादि । तत्र तेषु पञ्चभिरिन्द्रियः सह पञ्चानामर्थानामतियोगायोगमिथ्यायोगेषु खल्विन्द्रियाणां पश्चानां मध्ये खेक स्पर्शनेन्द्रियं खगिन्द्रियमिन्द्रियव्यापकम्। शेषाणां चतुणां श्रवणरसननयनघ्राणानां पायूपस्थहस्तपादवागिन्द्रियाणाञ्च व्यापक तानि सर्वाणि व्याप्य वर्तते । तच्च चेतःसमवायि---चेतो मनस्तस्य समवायो योगो विद्यतेऽस्येतितत् स्पर्शनेन्द्रियस्य सदन्द्रियव्यापकस्य सर्वव्याप्तेस्तत्समवायि चेतोऽपि स्वरूपत एकखाणुलगुणवेनाव्यापकञ्च व्यापकं भवति । सर्वशोऽनुपसेवनमितिवचनं सर्वशोऽनुपसेवनस्य भूरिभव्यक्तविकारकत्त त्वाभिप्रायेण ; अननुपूर्ध्या ययोतक्रमलचनेन, यथा-स्नात्वा उत्सादनं, तथोष्णपीडितस्य सहसा शीतलपानीयावगाहनसेवादि। अभिघातः खड्गहननादि, भूताः प्राणिनः पिशाचकरुण्डप्रभृतयः ; आदिग्रहणात् यत् किञ्चित् स्पर्शनसम्बद्धं शरीरोपघातकमयोगातियोगव्यतिरिक्त, तद् गृह्यते ॥ १७ ॥
चक्रपाणिः-ननु चक्षुरादीनि पन्चेन्द्रियाणि, अतस्तेषां प्रतिनियताः पञ्चासात्म्येन्द्रियार्थसंयोगाः, तत् कथमेकोऽसात्म्येन्द्रियार्थसंयोग इत्याख्यायत इत्याशङ्का स्पर्शनेन्द्रियस्य सर्वेन्द्रिय
* "स्नानादीनां शीतोष्णादीनां च स्पृश्यानामननूप्टष्टयोपसेवनं” इति चक्रपाणिः ।
For Private and Personal Use Only