SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५६ चरक-संहिता। तित्रैषणीयः मिथ्यायोगः। तथातिमात्रस्तनितपटहोत्कष्टादीनां शब्दानाम अतिमात्र श्रवणमतियोगः, सर्वशोऽश्रवणमयोगः, परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवण मिथ्यायोगः । तथातितीक्ष्णोग्राभिष्यन्दिनां गन्धानामतिमात्र प्राणमतियोगः, सर्वशोऽघ्राणमयोगः, पूतिद्विष्टामेष्यक्लिन्नविषपवनकुरणप अथापरानुदाहरति---तथेत्यादि । अतिमात्रस्य स्तनितादिपु सर्वत्रान्वयः । अतिमात्रस्य स्तनितस्य मेघशब्दस्य। अतिमात्रस्य पटहशब्दस्य ढकाशब्दस्य । अतिमात्रस्योत्क्रुष्टस्योच्चैःशब्दस्य । आदिना वीरदपसिंहनादादीनामतिमात्राणां शब्दानाश्चातिमात्रं श्रवणं श्रवणार्थस्यातियोगः। अनतिमात्रस्तनितादीनां शब्दानामतिश्रवणमप्यतियोगः। सर्वशो बनीनामश्रवणं श्रवणान्निवृत्तिः श्रवणार्थस्यायोगः। परुषादीनां शब्दानां श्रवण श्रवणार्थस्य मिथ्यायोगः । परुषशब्दोऽमनोशशब्दः। इष्टविनाशशब्दः पुत्रधनादिविनाशध्वनिः। उपघात इष्टस्यैव पुत्रादेरुपघातशब्दः। प्रधणशब्दो दुर्चचनशब्दः। भीषणशब्दो भयानकशब्दः। यन्नामग्रहणेन यस्य भयं स्यात् तच्छब्द इह भीषणः, न खतिमात्रस्तनितादिशब्दः। आदिनातिसूक्ष्मविप्रकृष्टकलहशब्दादीनां ग्रहणम् । इति त्रिविधविकल्पः श्रवणार्थस्यासात्म्ययोग एकः। ___ गन्धस्याल्पलेन प्राग्रसस्पर्शाभ्यां त्रिविधयोगं दर्शयति-तथातीत्यादि । अतितीक्ष्णगन्धो मरिचादीनाम् । अत्युग्रगन्धश्चम्पकादीनाम् । अत्यभिष्यन्दिगन्धो ज्योतिष्मतीक्षवकादीनाम् । तेषां गन्धानामतिमात्रं घ्राणं ग्रहणं नासया घ्राणार्थस्यातियोगः। साधुगन्धानामप्यतिमात्र प्राणं घ्राणार्थस्यातियोगः । सर्वशोऽघ्राणं गन्धानां घ्राणार्थस्यायोगः । पूत्यादीनां गन्धानां वाणं घ्राणार्थस्य मिथ्यायोगः । पूतिदुर्गन्धः । द्विष्टगन्धो यं प्राता द्वेष्टि । अमेध्यगन्धोऽपवित्रवस्तुगन्धः । क्लिन्नगन्धो वस्तूनां कदभावे जाले यो गन्धः। विपगन्धोऽथ पवनानीतो गन्धः। कुणपगन्धः शवगन्धः। आदिना विरगन्धादीनां ग्रहणम् । स्पर्शनरसनयोः सम्यग्योगेऽसम्यग्यांगे च बहवः स्पर्शरस व्यतिरिक्ताः स्नानाभ्यङ्गादयः प्रकृतिसंयोगसंरकारादयश्च कारणवेन वक्तव्याः ; अतिमात्रस्तनितं प्रवृद्धो मेघध्वनिः, पटहः पटहशब्दः, उत्क्रष्टं ददितिमानं शब्दितं, प्रधर्षणं तिरस्कारः ; तीक्ष्णो गन्धश्चक्षुर्विरेचनकारकः, यथाकृष्णजीरकादीनाम्, उग्रो वमनकारको वचादीनाम्, अभिष्यन्दी स्नैमित्यकारकः फाणितसुरासवा For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy