________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः] सूत्रस्थानम् ।
५५३ त्रय उपष्टम्भा इत्याहारः स्वप्नो ब्रह्मचर्यमिति। एभिस्त्रिभियुक्तियुक्तरुपष्टब्धमुपष्टम्भः शरीरं बलवर्णोपचयोपचितमनुवर्तते यावदायुषः संस्कारात् । * संस्कारः स हितमुपसेवमानस्य य इहैवोपदेक्ष्यते ॥ १५ ॥ ___ गङ्गाधरः---उद्देशानन्तरं तेषां निर्देशेन विभागः क्रियते-त्रय उपष्टम्भा इत्यादि । आहारोऽत्राशितखादितपीतलीढ़भेदन चतुविधोऽप्यभ्यवहारसामान्यादेक एवेह गण्यते। जिया ह्याहरणमाहारः । स्वमोऽपि मुप्तिसुषुप्तिभेदेन द्विविधोऽपि, तथा-“तमोभवा श्लेष्मसमुद्भवा च मनःशरीरश्रमसम्भवा च । आगन्तुकी व्याध्यनुवतिनो च रात्रिस्वभावप्रभावा च निद्रा ॥' इति भेदेन पड्विधोऽपि वहिश्चैतन्याभावहेतुलेन स्वमवसामान्यादेक एव गण्यते। ब्रह्मचर्यमिति कायवाङ्मनोभिमथुनवर्जनसामान्यादेकमेव गण्यते। इत्युपष्टम्भत्रयं निर्दिश्य तेषां प्रयोजनान्याह-एभिरित्यादि। एभिस्त्रिभिराहारस्वमब्रह्मचय्यरुपष्टम्भयुक्तियुक्तः समयोगयुक्तः प्रयोगीकृतैराचरितैरुपष्टब्धं दृढीभूतं शरीरं बलवोपचितं सदनुवत्तेते। तथाले हि शरीरस्य पुसामिह परत्र च शुभं सम्पद्यते। कियन्तं कालमिति ? अत आह-यावदायुपः संस्कारादिति । यावदायुपः शरीरानुवर्त्तनं संस्कारात्। त्रिभिरुपष्टम्भैरायुः संस्क्रियते । धारकत्वेन, तदनु बलमुपरम्भाहारादिजन्यत्वात्, तदनु रोगायतनानि बल-विरोधकर्त्त त्वेन, तदनु रोगास्तजन्यत्वेन, तदनु तन्मार्गज्ञानं सुविन्यस्तमेव, तदनु रोगप्रतिषेधार्थ प्रधानकारणवैद्याभिधानं, तदनु तदुपकरणत्वेन भैपज्यम् ॥ १४ ॥
चक्रपाणि:---अन्येन स्तभ्यमानं धार्यमाणमुप समीपं प्रधानकारणस्य गत्वा स्तम्भयति धारयतीत्युपरम्भः ; यथा गृहधारणनियुक्तप्रधानम्तम्भसमीपवर्ती तद बलाधायक उपयम्भः, तथेहापि शरीरस्यायुःसंवर्तकेन कर्मणा ध्रियमाणस्याहारादयो धारकत्वेनोपरम्भा इत्युच्यन्ते । आयतनानि कारणानि रोगस्येति शेषः । ब्रह्मचर्यशब्देन इन्द्रियसंयमसौमनस्यप्रभृतयो ब्रह्मज्ञानानुगुणा गृह्यन्ते ; आहारादयश्चेह प्रधानकल्पतया प्रशस्ता एव गृह्यन्ते, तेन, विरूपकाहारादीनां शरीरानुपष्टम्भकत्वं नोद्धावनीयम् ; अत एव युक्तियुक्तैरिति विशेषणं करिष्यति ; युक्तया प्रशस्तेन योगेन युक्ता युक्तियुक्ताः। ब्रह्मचर्य्यस्यायुक्तिरनभ्यासादतिभात्रोन्द्रयसंयमनादिरूपा, सा हि मनाक्षोभादिहेतुर्भवति । उपचितं युक्तम् ; आयुःसंस्कारादायुःकारण-धर्माधर्मावसानं यावदित्यर्थः, संस्कारशब्दः कारणवचनः ; आहारादयश्च प्राधान्येनोक्ताः, तेनः अभ्यङ्गादीनां
* संस्कारमहितमनुपसेवमानस्येति चक्रपाणिसम्मतः पाठः।
७०
For Private and Personal Use Only