________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५४ चरक-संहिता।
(तिस्प्रेषणोयः त्रिविधं बलमिति–सहज, कालजं, युक्तिकृतञ्च । सहज पुनस्तद् यच्छरीरसत्त्वयोः प्राकृतम्। कालकृतस्तुविभागज वयःकृतश्च। युक्तिकृतं पुनस्ता पदाहारचेष्टायोगजम् ॥१६॥
संस्कारः करणं गुणाधानम् । हासमुणनित्याख्यगुण आधीयते। आयुस्तु प्राक्तनकर्म फलजनितनियतकालप्रमाणे शरीरेन्द्रियसत्त्वात्मसंयोगरूपम् । कः पुनरायुपः संस्कार इति? अत आह-संस्कार इत्यादि। स हि संस्कार आयुपः। तमुपष्टम्भगुपसेवमानस्य खल्विह शास्त्र य उपदेक्ष्यने आहारादिसम्यगयोगेनायुपो हासनितिगुणाधानरूप इति ॥ १५ ॥
गङ्गाधरः-अथ क्रमोदिष्टं वलं निर्दिशति-त्रिविध वलमितीत्यादि । सहजमिति जायमानस्य यच्छरीरसत्वयोः प्राकृतं स्वाभाविक गर्भारम्भकाले यादृशप्राक्तनकम्भजनितशुभाशुभफलवशाद यादृशपधातुयोगे यादृशरसाहारसेवमानाया मातुर्विपकरसेन च प्रकृत्या सह शरीरसत्वाभ्यां जातं बलं तच्छरीरसत्वयोः प्राकृतं बलं सहज बलगुच्यते। कालकृतं वलमृतुविभागजम् । सहजबलस्य पडतुकालस्वभावाज्जातं वृद्धिमध्यहासरूपं बलं प्रागुक्तम्-'आदावन्ते च दौर्बल्यं विसर्गादानयोनृणाम् । मध्ये मध्यवलं खन्ते श्रेष्ठमग्रे च निर्दिशेत् ॥” इति। वयःकृतश्चेति बाल्ययौवनवार्द्धक्यकृतम् । यत् प्राकृतबलस्य हासद्धिमध्यरूपं बलं तदपि कालकृतम्मुच्यते । युक्तिकृतञ्चेति युक्तिकृतं पुनस्तत्तदाहारचेष्टायोगजम् । बलावलकारिभ्य आहारेभ्यो युक्तियुक्तभ्यो जातं तथा चेष्टाभ्यश्च जातं तथा वाजीकरणयोगेभ्यश्च जातं बलं युक्तिकृतमिति ॥१६॥
शरीरधारकत्वेऽविरुद्धत्वमेव । नन्याहारादीनि सम्बगाचरतोऽपि विशेषेरसात्मेन्द्रियार्थसंयोगादिजन्यैव्याधिभिरन्तरापि मरणं दृष्टमित्याह-संस्कारमिन्यादि । संस्कारं कारणम् अहितं शरीरस्येति शेषः, य इहवोपदेश्यत इति 'नीष्यायतनानि" इत्यादिना ग्रन्थेन ॥ १५ ॥ ___ चक्रपाणिः - युक्तिराहारचेष्ठयोः सम्यक् शरीरेण योजना ; सत्त्व मनः, मनसो बलं यदुत्साह उच्यते, प्राकृतमिति जन्मादिप्रवृत्तं प्राकृतधातुवृद्ध्या हेत्वन्तरनिरपेक्षं वृद्धं, दृश्यन्ते हि केचित् स्वभावादेव बलिनो दुर्बलाश्च केचित् । ऋतुविभागजम् “आदावन्ते च दौर्बल्यम्' इत्याद्यक्तम् । आहारस्य मांससर्पिरादेः, चेवाया उचितविश्रामव्यायामादेर्योग आहारचेवायोगः ; अन्ये तु योगशब्देन रसायनप्रयोगं ग्राहयन्ति ॥ १६ ॥
For Private and Personal Use Only