________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५५२ चरक-संहिता।
[तिसेषणीयः एवंविधानि कर्माणि सतामविगहितानि स्वाणि वृत्तिपुष्टिकराणि विद्यात् तान्यारभेत कर्तुम। तथा कुन्निह चैव यशो लभते प्रत्य च स्वर्गमिति तृतीया परलोकैषणा व्याख्याता भवति ॥ १३ ॥
अथ खलु त्रय उपष्टम्भाः, त्रिविधं बलम् , त्रीण्यायतनानि, त्रयो रोगाः, त्रयो रोगमार्गाः, त्रिविधा भिषजः, त्रिविधमौषधमिति ॥ १४ ॥ __ अथानुक्तानि काण्यनुमन्यते यानि चान्यानीत्यादि । स्वाणि स्वर्गहितानि वृत्तिपुष्टिकराणि तथा काश्यादिवासादीनि शुभानि विद्यात् तान्यप्यारभेत कम्। तस्याशिपमाह-तथा हीत्यादि। इह यशो लभते। प्रेत्य स्वर्ग, चकारान्मनःसमाधिसिद्धौ मोक्षश्च लभते इति। इति तृतीया परलोकैपणा व्याख्याता भवति ॥ १३ ॥
गङ्गाधरः-इत्येवं तिस्र एषणा व्याख्याय त्रिखसामान्यादन्यानि त्रिकाणि व्याख्यातुमाह---अथ खल्वित्यादि। त्रय उपष्टम्भा इति। ये शरीरमुपगत्य स्तभ्नन्ति त उपष्टम्भाः शरीरधारणक्रियारम्भास्त्रय इति । त्रिविधं बलं वलाधानं हुपष्टम्भाः। यथा गृहरक्षणार्थ स्तम्भादिकं गृहवलाधानं तथा शरीररक्षणाथेमुपष्टम्भत्रयम्। त्रीण्यायतनानि कारणानि । यथा लोके कारणाधीनं बलमबलश्च तथा शरीरादिबलाबलं युक्तायुक्तकारणत्रयाधीनं तत्रायोगकारणाधीनास्त्रयो रोगाः रोगाणाश्च त्रयो मार्गाः। तेषां रोगाणां प्रतिकारकास्त्रिविधा भिषजः। प्रतिकारसाधनानि त्रिविधमौषधमिति । इत्येष सप्तानां त्रिकाणामुद्देशः॥१४॥ मनसो वारयित्वाऽऽत्मनि समाधानं मनः-समाधिः ; अत्र च सर्वत्रावीयेतेति सम्बन्धः ; स्वाणि स्वर्गहितानि स्वर्गकराणीति यावत् ; वृत्तेर्धनस्य पुष्टिः वृत्तिपुरिः ; धर्मेपणायाञ्च वृत्तिपुष्टिकराभिधानं धर्महेतूनां वृत्तिहेत्वविरोधेनाचरणोपदेशार्थम् ; यशो लभते धार्मिकोऽयमित्येवमादिख्यातिरूपम् ; परलोकैषणा तृतीयैव, ततश्च पुनस्तृतीयेति पदं, धर्मस्य प्राणधनकारणत्वेन धमॆषणायाः प्राणधनैषणात्व-प्रसक्तिप्रतिषेधार्थम् ॥ १३ ॥
चक्रपाणिः----सम्प्रति त्रिसंख्यावच्छिन्नोपोद्धातेनान्यान्यपि त्रिसंख्यावच्छिन्नानि स्वस्थातुरहितत्वेनेह वक्तव्यान्याह--..अथ खल्वित्यादि ।-प्रथममुपष्टम्भा अभिधीयन्ते मृलभतशरीर
For Private and Personal Use Only