SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४६ चरक-संहिता। तिपणोयः आयुषो वैषम्यम्, इहाकृतस्यावाप्तिः, अशिनितानाञ्च सदितस्तनपानहासत्रासादीनाञ्च प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मच दास्यम् । कस्य चापत्यस्यैश्वर्यम् । सुखं चायुः कस्यचित् । कस्यचित् असुखमायुः। तथैवायुषः कस्य च दैव्य॑म् । केपाञ्चाल्पसमिति भाग्यादेव भवति। न चैतानि मनोबुद्धिभ्यां कृतैः कम्मभिरात्मानं विना जाताभाग्यविशेषात् सम्भवन्ति। न हि मनो वा बुद्धिा वैशेष्यं स्वयमापद्यते विनात्मानं येन विशेषण कर्मविशेषः क्रियते। यदि च सत्त्वमन विधीयते शरीरं शरीरं चानुविधीयते सत्त्वमिति शरीरविशेपयोगात् सत्त्वविशेषः स्यात्, ततो बुद्धिविशेषः, ताभ्यां कर्मविशेषः क्रियते, ततो भाग्यविशेषः स्यादित्युच्यते । तत्राह--इहाकृतस्यावाप्तिरित्यादि। यदि पूर्वजन्म नास्ति तत् प्रर्व जन्मकृतकर्मफलेन मनोबुद्धिभाग्यविशेषा न स्युः। तहि कथमिह जन्मनि यत् कम न कृतं तदिहाकृतस्य कम्मणः फलावाप्तिः कस्माद् भवति ? तस्मादस्त्यात्मा नित्यः सवस्य कर्ता। य इह पूर्वजन्मनि यत्किञ्च कर्म चकार शुभं वाशुभं तम्यैतत् फलं यदिहाकृतकर्मणो न फलम् । तद्यथा-अशिक्षितानाञ्चेत्यादि । जातमात्रस्य शिशोर्ने शिक्षितानि शिक्षाकर्मभिन कृतानि रुदितादीनि यानि तेषामवाप्तिरिति। गौतमेनाप्युक्तम्- 'पूव्वाभ्यस्तस्मृत्यनुवन्धाज्जातस्य हपभयशोकसम्प्रतिपत्तेः” । व्याख्यातमिदं वात्स्यायनेन जातः खल्वयं कुमारकोऽस्मिन् जन्मन्यगृहीतेषु हर्पभयशोकादिहेतुषु हर्पभयशोकादीन् प्रतिपद्यते लिङ्गानुमेयान्। ते च स्मृत्यनुबन्धादुत्पद्यन्ते, नान्यथा। स्मृत्यनबन्धश्च पूव्वाभ्यासम् अन्तरेण न भवति । पूर्वाभ्यासश्च पूर्वजन्मनि सति भवति । नान्यथेति । तस्मादस्त्यात्मा नित्यः संसारी। यः पूर्वदेहे कर्माणि कृखा रुदितादिहेतून उपलभ्याभ्यस्य परलोक गवा पुनरिह जातमात्रं तान् रुदितादिहतून् स्मृखा रोदिति स्तन्यं पिबति हसति त्रस्यति बिभेति हृष्यति शोचति । बोद्धव्यः ; सुखासुखमित्यायुपो विशेषणम्। रुदितादयोऽमी अव्युत्पन्नबालगोचरतया बोद्धव्याः, एते च रुदितादयो यथायोगमिष्टानिष्टस्मरणमन्तरा न भवान्त-स्मरणञ्च पूर्वज्ञानं विना न भवतीति पूर्वजन्मज्ञानानुमानान् परलोकानुमायका भवान्त ; पूर्वप्रतिपादितञ्च विसदृशत्वादिवैचित्रप्रमुत्तरत्र प्रतिपादनीयञ्च लक्षणोत्पत्त्यादिकारणान्तरं दर्शने सति पूर्वजन्मकृतकारणानुमायकमिति परलोकानुमायकं मन्तव्यम् । लक्षणोत्पत्तिरिति सामुद्रकलक्षणप्रतिपादितलक्षणोत् For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy