________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः ।
सूत्रस्थानम् ।
५४५
एवं पुनर्भवः प्रत्यक्षमपि चोपलभ्यते । मातापित्रा - विसदृशान्यपत्यानि तुल्यसम्भवानां वर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः, प्रवरावरकुलजन्म, दास्येश्वर्य, सुखासुखमायुः,
।
गङ्गter:-आप्तोपदेशप्रमाणेन पुनर्भवोऽस्तीति स्थापयन्तं नास्तिक आह--- कस्कः खल्लिह मृखा परलोकं गवा पुनरिह भवेत् ? शुक्रार्त्तवादिपश्ञ्चभूतविकारसमुदायो हि पुमान प्रागभिहित इति नास्त्यात्मा योऽसौ मृत्वा परलोकं गच्छति तत्र भोगं भुक्त्वा पुनरिह भवतीति ? अत आह एवं पुनर्भव इत्यादि । प्रत्यक्षमपि चोपलभ्यते पुनर्भव आत्मनित्यत्वात् । न ह्यात्मानमन्तरेण शुक्रार्त्तवीयादिभिः पञ्चभिर्महाभूतैर्जायते जन्तुः कश्चित् । भूतसंयोगे चैतन्यसम्भवाभावात् । भूतेषु प्रत्येकमदृष्टस्य चैतन्यस्य सङ्घाते तदसम्भवात् कारणगुणपूर्वको हि कार्य्यगुणो भवति । का मदशक्तिवन्न चैतन्यं कारणकर्मसम्भूतं स्यात् । चैतन्यं हि गुणः । गुण एव गुणान्तरमारभते, न कर्म गुणमारभते । इत्यादि विस्तरेण दर्शितं पूर्व्वाध्याये । तस्मादस्त्यात्मा नित्यः संसारी स एव पुनरिह जायते प्रत्यक्षेण तदुप - लभ्यते कथमिति ? अत आह मातापित्रोरित्यादि । मानि विभिन्नस्वरूपाणि प्रत्यक्षेण दृश्यन्ते । कानि च कानि च कुरूपादीनि । तादृशरूपाणि खलु मातापित्रोः शुक्रार्त्तवविशेषेण सम्भवन्तीति : [? अत आह— तुल्यसम्भवानामित्यादि । तुल्याभ्यां मातापितृभ्यां तयोः पूर्व्ववच्छुक्रार्त्तवाभ्यां सम्भवो येषामपत्यानां वर्णस्वरादिविशेषाः प्रत्यक्षेण दृश्यन्ते । या चैकस्यापत्यस्य माता यश्च पिता साचस चापरस्यापत्यस्येति | कस्मात् तस्य तस्यापत्यस्य कारणात् स्वरवर्णादिविशेषाः । आत्मजा हि वर्णस्वराकृतिमनोबुद्धिभाग्यानां विशेषाः । न हि तेषु पञ्चभूतसम्भवेऽपि वर्णस्वराकृतीनां विशेषा भाग्यविशेषाहते सम्भवन्ति । भाग्यविशेषश्च सत्त्वबुद्धिविशेषेण पूर्व्वदेहकृतैः कर्मभिर्जायते । भाग्यविशेषाच्च सत्त्वबुद्धयोर्विशेषः स्यात् । एवं भाग्यविशेषादेव प्रवरावरकुले जन्म । कस्य
वि - सहशानीसुरूपादीनि ।
चक्रपाणिः - प्रत्यक्षञ्च यद्यपि पुनर्भवं न गृह्णाति तथापि तत् पुनर्भवग्राहकानुमानस्य लिङ्गग्रहणे यथा व्याप्रियते, तथा दर्शयति-- प्रत्यक्षमपीत्यादि । विसदृशानीति कश्चित् कुरूपः कश्चित् सुरूपः, तुल्यसम्भवानां तुल्योत्पादकारणानां कश्चिद् गौरः कश्चित् कृष्णः; एवं स्वरादावपि विशेषो बोद्धव्यः; दास्यैश्वय्र्यमिति कस्यचिद्वास्यं कस्यचिद्वैश्रय्र्यम् एवमपरत्रापि विपर्ययः पुरुषभेदेन
For Private and Personal Use Only