________________
Shri Mahavir Jain Aradhana Kendra
११श अध्यायः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
५४७
इत्येवमेपामशिक्षितानां रुदितादीनां प्रवृत्तिदर्शनादस्ति पुनर्भव इति । नत्राहुर्नास्तिका - नास्ति पुनर्भवः । जातमात्र शिशोि पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः" । यथा पद्मादिष्वनित्येषु प्रबोधसम्मीलनं विकारो भवति स्वभावात् एवमनित्येषु शिशुषु तत्तदात्मनोऽप्यनित्यस्य भूतमयस्य great रुदितस्तनपानहासत्रासादय विकाराः सम्प्रतिपद्यन्ते । तत्रोच्यते-नेदं युक्तं हेत्वभावात् । अनेन हेतुना पद्मादिषु मवोचसम्मीलन विकार इतिवदनित्यस्य भूतमयस्यात्मनो हर्षादिसम्प्रतिपत्तिरिति । न aatree साध्यसाधनहेतुरस्ति न वा वैधम्र्म्यात् साध्यसाधनहेतुरस्ति । इति हेत्वभावादसम्बन्धार्थकमपार्थकमुच्यते । दृष्टान्ताच्च हर्षादिनिमित्तस्य न निवृत्तिर्भवति । या च खल्वियम सेवितेषु विषयेषु हर्षादिसम्पतिपत्तिः स्मृत्यनुबन्धकता प्रत्यात्मं गृह्यते सेयं पद्मादिबोधसम्मीलनदृष्टान्तेन न निवर्त्तते । यथा चेयं न निवर्त्तते तथा जातस्यापीति । क्रियाजातौ च पर्णविभागसंयोग पद्मादीनां प्रबोधसम्मीलने उच्येते । क्रियाहेतुश्चानुमेयः । एवं सति दृष्टान्ते किं प्रतिषिध्यते ? तत्राह निर्निमित्तः पद्मादिपु प्रबोधसम्मीलनविकार इति । तथा शिशोरपि निर्निमित्ता रुदितादय विकारा इति चेत् ? न । उष्णशीत वर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम्। न निर्निमित्तः पद्मादिप वोवसम्मीलनविकार इव शिशोजतिमात्रस्य हर्षादयो विकारा निर्निमित्ताः । पञ्चात्मक विकाराणामुष्णादिकालनिमित्तत्वात् । उष्णादिषु सत्सु भावादसत्स्वभावात्तन्निमित्ताः पञ्चभूतानुग्रहेण निरृतानां पद्मादीनां प्रबोधसम्मीलनविकाराः निमित्ताभवितुमर्हन्ति, न निमित्तमन्तरेण । न चात्मनो दृष्टान्तादुत्पत्तिनिरोधः कारणानुमानं भवति । न हर्षादीनां निमित्तमन्तरेणोत्पत्तिर्नोष्णकालादिवन्निमित्तान्तरोपादानं हर्षादीनाम् । तस्मादयुक्तमेतत् । एवमितवास्ति नित्य आत्मा चैतन्यकारणम् । प्रत्याहाराभ्यासकृतात् स्तन्याभिलापाज्जातमात्रस्य शिशोः प्रवृत्तिलिङ्गः स्तन्याभिलापो गृह्यते । स च नान्तरेणाहाराभ्यासं भवति । कया युक्त्येति चेत् ? दृश्यते हि शरीरिणां सुवया पीड्यमानानामाहाराभ्यासकृतात् स्मरणानुबन्धादाहाराभिलापः । न च पूर्व्वशरीरमन्तरेण जातमात्रस्य शिशोरुपपद्यते सः । तेन स्तन्यपानाभिलाषेणानुमीयते भूतपूर्व्वं शरीरं यत्रानेन शिशुनाहारोऽभ्यस्त इति । स खल्वयमात्मा पूर्व्वशरीरात् प्र ेत्य शरीरान्तरमिदमापन्नः क्षुत्पीड़ितः पूर्वाभ्यस्तं निवृत्तिकरमाहारमन स्मरन् स्तन्यमभिलषन् पिवति । तस्माद
For Private and Personal Use Only