________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"श अध्यायः
सूत्रस्थानम् ।
५४३ तत्राप्तागमस्तावद्वेदः,यश्चान्योऽपि कश्चिद्वं दार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः स चाप्तागमः। आप्तागसादुपलभ्यते -दानतपोयज्ञसत्यातत्त्वमनुजानातीति । यथा सोऽथों भवति नस्य नथाभावस्तत्त्वमविपर्ययो याथातथ्यमिति ।
इति चतुर्णामाप्तोपदेशादीनां लक्षणान्युक्त्वा तदुपसंहरति---एघेत्यादि । एषा चतुर्विधव परीक्षा न खतिरिक्ता खल्वन्या परीक्षास्ति। यतो यया चतुर्विधयैव परीक्षया सव्वं परीक्ष्यते। समिति या परीक्ष्यते तत् परीक्ष्यं सव्व सदसच्चैव भावोऽभावश्चेति सव्वम्, न तु किश्चिदिति । तस्मात् तया चतुविधया परीक्षया पुनर्भवोऽस्त्येवेति ॥९॥
गङ्गाधरः---प्रत्यक्षमात्रप्रमाणवादिप्रभृतीन् नास्तिकान निरस्य पुनर्भवस्य अस्तिवं चतुब्बिंधया परीक्षया स्थापयितु पूर्वमाप्तोपदेशेन स्थापयतितत्र आतागमस्तावदित्यादि। तावद ऋगयजःसामाथव्ववेदः सेतिहास. पुराणः सपङ्गश्चाप्तागमः यश्चान्योऽपि कश्चिदवेदार्थादविपरीतः। वेदार्थविपरीतस्तु न प्रमाण । कथं वेदार्थाविपरीततया ज्ञायते ? शिष्टानुमतः शिष्टैराप्तः खानुमतो यः शास्त्रवादः परीक्षकैः प्रणीतः। वेदवाक्याथ एव वाक्यान्तरण प्रकाशितः । तत्र लोकानुग्रहधम्मकम्ांदिप्रणयनेन वर्तते यः स लोकानुग्रहवृत्तः। स च शास्त्रबाद आप्तागम इति । एनेनैतदुक्ता -- ऋग्यजुःसामाथव्दानगला ज्योतिच्वंदवनचंदगान्धव्यवदायुचंदाः शिक्षाकल्पव्याकरणच्छन्दोनिरुक्तज्योतिब्वेदास्ते पुनम हपिभिः परीक्षकः प्रणीताः शाखादिसंज्ञा आप्तागमाः प्रमाणानीति । तस्मादागमादुपलभ्यते खलु यत्तदाह---दानेत्यादि। दानादीन्यभ्युदयनिःथ यसकराणीनि। आप्तागमे श्रुतं दानादिकम्मभिः अभ्युदय इह शुभपारत्रिकस्वर्गपुनर्भवादि शुभं भवति। तथा दानादि
चक्रपाणिः-- तन शब्दस्य पुनर्भवातिपादकत्वं दर्शयति -- नासागम इत्यादि । -प्रथम वेदं प्रदर्शयन् वेदस्य निरस्तविभ्रमाशङ्क प्रामाण्यं दर्शयति. यश्चान्योऽपीत्यनेन ग्रन्थेन वेदार्थाविपरीतत्वादिभिर्हेतुभिः परिच्छेदनीयप्रामाण्यायुर्व्वदस्मृतिशास्त्रादीनि दर्शयति, शास्त्ररूपो वादः शास्त्रवादः ; आप्तागमादिति वेदात्, यज्ञोऽग्निहोमादिः, ब्रह्मचर्यमुपस्थसंयमनादि, अभ्युदयः स्वर्ग:, निःश्रेयसं मोक्षः ; अत्र यथायोग्यतया स्वर्गस्य मोक्षस्य च कारणं बोद्रव्यम् ।
For Private and Personal Use Only