________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४२ चरक-संहिता।
[तिषणीयः न प्रमाणसंगृहीतो न प्रमाणान्तरं प्रमाणानामनुग्राहकस्तत्त्वज्ञानाय कल्पते। तस्योदाहरणं किमिदं जन्म कृतकेन हेतुना निवर्तते ? आहोखिदकृतकेन ? अथाकस्मिकमिति? एवमविज्ञातेऽर्थे कारणोपपत्त्या तत्त्वज्ञानार्थमूहः प्रवर्तते। यदि कुतकेन हेतुना निवर्त्तने जन्म तदा हेतूच्छेदादुपपन्नोऽयं जन्मच्छेदः। अथाक्तकेन हेतुना, ततो हेतूच्छेदस्याशक्यवादनुपपन्नोऽय जन्मच्छेदः। अथाकस्मिकमित्यकस्मान्निवत्तमानं जन्म न पुननिर्वत्स्यतीति नित्तिकारणं नोपपद्यते। तेन जन्मानुच्छेद इति। एतस्मिंस्तर्कविषये कम्मे निमित्तं जन्मेति प्रमाणानि वर्गमानानि तणानुगृह्यन्ते। तत्त्वज्ञानविषयस्य विभागात् तत्वज्ञानाय कल्पते तर्क इति । सोऽयं तक प्रमाणसहितो वादे साधनायोपलम्भाय वार्थस्य भवतीत्येवमर्थ पृथगुच्यते प्रमेयेऽन्तर्भूतोऽपीति। अविज्ञायमानतत्त्वेऽर्थे जिज्ञासा तावज्जायते जानीयेममर्थमिति । अथ जिशासितव्यस्य वस्तुनो व्याहतो थम्मो विभागेन विमृशति । किं स्विदित्यम् ? आहोस्विनेत्थमिति ? विमृश्यमानयोधर्मयोरेकं कारणोपपत्त्याऽनुजानाति । सम्भवत्यस्मिन् कारणं प्रमाणं हेतुरिति । कारणोपपत्त्या स्यादेवणेतन्नेतरदिति । तत्र निदर्शनं योऽयं ज्ञाता ज्ञातव्यमर्थ जानीले तञ्च भो जानीयेति जिज्ञासा। स किमुत्पत्तिधर्मकोऽनुत्पत्तिधम्मको वेति विमर्शः। विमृश्यमानेऽशाततत्त्वेऽर्थे यस्य धर्मस्याभ्यनुज्ञाकारणमुपपवते तमनुजानाति । यद्ययमनुत्पत्तिधम्मकस्ततः स्वकृतस्य कम्मणः फलमनुभवति ज्ञाता। दुःख जन्मपत्तिदोषमिथ्याज्ञानानामुत्तरमुत्तरं पूर्वस्य पूर्वस्य कारणम् । उत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति स्यातां संसारापवगो । उत्पत्तियम्मके ज्ञातरि पुनर्न स्याताम् । उत्पन्नः खल शाता देहेन्द्रियबुद्धिवेदनाभिः सम्बध्यत इति । नास्येदं स्वकृतस्य कर्मणः फलम् । उत्पन्नश्च भूखा न भवतीति तस्याविद्यमानस्य निरुद्धस्य वा स्वकृतस्य कर्मणः फलोपभोगो नास्ति । लदेवगेकस्याने कसरीरयोगः शरीरादिवियोगश्चात्यन्तं न स्यादिनि। यत्र कारणमुपपद्यमानं पश्यति नत्रानुजानाति सोऽयम् । एवंलक्षण अहस्तर्क इत्युच्यते । कथं पुनरयं तत्त्वज्ञानार्थी न तत्त्वज्ञानमेवेति ? अनवधारणात् अनुजानात्ययभेकतरं ध कारणोपपत्त्या न खवधारयति न व्यवस्यति न निश्चिनोत्येवमेवमिदमिति । कथं नत्वज्ञानार्थ इति ? तत्त्वज्ञानविषयाभ्यनुशालक्षणानुग्रहोमावितात् प्रसन्नादनन्तरप्रमाणसामर्थ्यात्तत्त्वज्ञानमुत्पद्यत इत्येवं तत्वज्ञानार्थस्तकः। सोऽयं तकः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाणसहितो वादे तूपविष्ट इत्यविज्ञात
For Private and Personal Use Only