________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१श अध्यायः
सूत्रस्थानम् । पञ्चावयवे य उपनयस्तदुपमानम् । तत्र यथा। पुरुषो नित्यः, अकृतकलात् । यथाकाशः। यथाकाशोऽकृतकस्तथा पुरुषोऽकृतक इति। तथेत्यनेन समानधम्मोपसंहारादुपमानं सिध्यति। नानमानमिति । वादेऽवयवार्थ पृथगुपमानं प्रमाणमिष्यते। इत्ययमनयोविशेषः--इति कपिलादिभिरपि चाङ्गीकृत्य खस्वतन्त्रे वादानभिशनात् प्रमाणेऽभिधेयेऽनमानऽन्तर्भावितमुपमानमिति न विरोधः। इत्यनमानं व्याख्यातम्। ___ अथानुमानं तों युक्तापेक्ष इति युक्तापेक्षवादनमानावान्तरीयत्वेऽपि युक्तः सिद्धे प्रामाण्ये वहुकारणोपपत्तितस्तत्वज्ञानार्थ पृथगेवेहोक्ता। तामुदाहरति--जरेत्यादि। जलं रायत्त शिशिरवर्षणरोचनादिना सिक्तम। कर्षण क्षेत्रस्य । वीज बीनकम, न तु निर्बीजांशयुक्तं वीज पुलाकादि । ऋतुर्यस्य वीजस्य यः प्ररोहकालादिफलोत्पत्तिपर्यन्तः कालः। तेषां चतुणे सान्निध्यादेकान्तेन शस्यसम्भवः स्यादित्येका युक्तिभविष्यद्दशिनी भविष्यन्ती नाम। अपरा तु पातु संयोगादगर्भाणां सम्भत्र इति। यथा दोषरहितायां भूमौ कृष्टायाम्दोषं बीजाप्त यथाजलोपसिक्तं यथर कालेङ्करं जनयति-- तथा दोपहीने गर्भाशये क्षेत्रे दोपहीनशुक्रात्तेवजलसेके वीजा सूक्ष्मदेहिजीवात्मा यदावक्राति ऋतुकाले तदात्मा शुक्रात्तवीयपञ्चमहाभूतानीति पडतुसंयोगाइव गर्भाणां सम्भवः स्यादिति वर्तमानद शिनी बुद्धि युक्तिवेत्तैमाना। अपरा तु-मथ्येत्यादि । मथ्यमन्थनमन्थानसंयोगादग्निसम्भवः । मथ्यं मन्थनार्थमयःस्थकाष्ठमरणिर्नाम, मन्थनमूद्ध स्थकाप्ठं येन घृष्यति, मन्थानः कर्ता; एषां संयोगानमन्धनक्रिययावश्यमग्निसम्भव इति भविष्यन्ती युक्तिः । अपरा तु तेषां संयोगादग्निसम्भवो दृष्ट इत्यतीता। तथा युक्तियुक्ता चतुष्पादसम्पत्-अविगुणभिपगद्रव्योपस्थात्मेपजानि युक्तियुक्तानि साध्यव्याधिनिवहेणानि भवन्तीति युक्तिः।
ननु कासो युक्तिरिति ? अत आह-बुद्धिरित्यादि। या बुद्धिबंहुकारणयोगजान् बहुविश्कारणोपपत्तितः खल्वविज्ञाततत्त्वान् भावानर्थान् तत्वज्ञानाथं पश्यति सा बुद्धियु क्तिर्नाम । सा त्रिकाला त्रिकालमर्थ पश्यतीति विज्ञया। यया युक्त्या वुझा त्रिवर्ग धमेश्वाथेश्च कामश्चेति वर्गत्रयं साध्यते इति त्रिवर्गसायिनी त्रिकाला तत्त्वज्ञानसाधिनी युक्तिस्तक इत्यनान्तरम्। तथा चाभिहितस्तौऽक्षपादगौतमेन-"अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तकः”। व्याख्यातं वात्स्यायनेन। तौ
For Private and Personal Use Only