________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५४०
चरक-संहिता।
तिस्प्रेषणीयः साधात् साध्यसाधनमुपमानम् ।” प्रशातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनमुपमानमिति। यथा गौरेवं गवय इति । किं पुनरत्रोपमानेन क्रियते ? यदा खल्वयं गवा समानधर्म प्रतिपद्यते, तदा प्रत्यक्षतस्तमर्थ प्रतिपद्यत इति । समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ इत्याह-यथा गौरवं गवय इति उपमाने प्रयुक्त गवा समानयम्मेममिन्द्रियार्थन्निकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञेति संशासशिसम्बन्ध प्रतिपद्यते। यथा मुद्गस्तथा मुद्गपर्णी, यथा माषस्तथा माषपर्णी-इत्युपमाने प्रयुक्त उपमानात् संज्ञासंशिसम्बन्ध प्रतिपद्यमानस्तामोषधिं भैपज्यायाहरति। एवमन्योऽप्युपमानस्य लोके विषयो बुभुत्सितव्य इति । परीक्षितं चैतल्लक्षणं तत्रैव। अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः। अत्यन्तसाधादुपमानं न सिध्यति। न चैवं भवति । यथा गोरेवं गौरिति। प्रायसाधादुपमानं न सिध्यति । न हि भवति यथानड़ानेवं महिष इति । एकदेशसाक्षात् उपमानं न सिध्यति। न हि सण समुपमीयते। एकदेशसाम्यं सव्वस्य सर्वत्रैवास्तीति । तत्रोत्तरम्। प्रसिद्ध साधादुपमानसिद्धे यथोक्तदोषानुपपत्तिः।” न साध्यस्य कात्स्नपायाल्पभावमाश्रित्योपमानं प्रवत्तते। किन्तु प्रसिद्धसाधात् साध्यसाधनभावमाश्रित्य प्रवत्तते। यत्र चैतदस्ति न तत्रोपमानं प्रतिषेद्ध' .क्यम् । तस्मादयथोक्तदोषो नोपपद्यत इति ! अस्तु तहि चोपमानमनुमानम्। प्रत्यक्षेणाप्रत्यक्षसिद्धः। यथा धूमेन प्रत्यक्षेणाप्रत्यक्षस्य वह्न ग्रहणमनुमानम् । एवं गवा प्रत्यक्षेणाप्रत्यक्षस्य गवयस्य ग्रहणमिति । नेदमनुमानादिशिष्यते । तत्र विशिष्यत इत्याह । कया युक्त्या ? नामत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्याम इति । यदा ह्ययमुपयुक्तापमानो गोदशी गवयं गोसमानमथं पश्यति तदायं गवय इत्यस्य संज्ञाशब्दस्य व्यवस्था प्रतिपद्यते, न चैवानुमानमिति ! परार्थ चोपमानं यस्य हुअपमानमप्रसिद्धं तदर्थ प्रसिद्धोभयेन क्रियते। यथा बलिवासवयोयुद्धं बालवासवयोरिवेति। परार्थमुपमानमिति चेत् ? न, स्वयमध्यवसायात् । बलिवासवयोयुद्धं बलिवासवयोरिवेति स्वयमध्यवसीयते, न तूपमा भवति । भवति च भोः स्वयमध्यवसायः। यथा गोरेवं गवय इति। नाध्यवसायः प्रतिषिध्यते। उपमाने तु तन्न भवति । “प्रसिद्धसाधात् साध्यसाधनमुपमानम् ।" न च यस्योभयं प्रसिद्धं तं प्रति साध्यसाधनमावो विद्यते । तथापि तथेत्युपसंहारादुपमानसिद्ध विशेषः। तथेति वादे न्यायवाक्ये
For Private and Personal Use Only