________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अभ्यायः । सूत्रस्थानम्।
५३६ वाभावे व्याप्तिः सम्बन्धः---इत्याचा- आहुः। तत्राह कपिल:--"निजशक्तिः” इति। निजस्य शक्तिः सा स्वरूपविशेष एव न खतिरिक्ता। तथा सति - “न स्वरूपशक्तिनियमः पुनर्यादप्रसक्तः”। निजशक्तिः स्वरूपशक्तिरेव । न खतिरिक्ता--- इत्येवं नियमो न क्रियते। यथा वह हिका शक्ति— पस्य मालिन्यकारिवादिशक्तिरित्येवं स्वरूपशक्तिवचने वह्नौ धमस्य व्याप्तिन भवति । मालिन्यकारिखादिस्वरूपशक्तितो धमो न वह्निना व्याप्यते। तयाप्तिसिद्धार्थ पुनः शक्त्यन्तरवचनप्रसङ्गः स्यात्। तस्मानिनशक्तिने केवलस्वरूपशक्तिः। यत्र यया शक्त्या यम्मान्तरमुद्भवति तत्र सा शक्तिनिजशक्तिरियन इति। कुतः पुनर्वादप्रसक्तिरिति ? अत उक्तम् । “विशेषणानर्थक्यप्रसक्तः”। स्वरूपशक्तिरेव निजशक्तिरिति वचने पुनर्वादप्रसक्तिविशेषणानर्थक्यप्रसक्तः। निजस्य शक्तिनिजशक्तिः--इत्यत्र शक्तविशेषणं निजस्येति---तस्यानर्थवयं प्रसज्यते । स्वरूपशक्तुद्भवमित्युक्तमा तत्सिद्धेः। स्वरूपेति स्वशब्देन यदुक्तं तदेव निजशब्देनोच्यते। तेन निजस्वरूप शक्त्युद्भवमिति वचनं पुनरुक्तिप्रसङ्गः, निजस्य स्वरूपशक्तिरित्यर्थात् न केवलं विशेषणानर्थवयप्रसङ्गः । “पल्लथादिष्वनपपत्तिश्च”। वृक्षादीनां पल्लवादिकमपि स्वरूपं छायादिकर्मकृच्छक्तिकम्। पल्लवादिस्वरूपाणां शत्तयुद्भवं छायादि। वृक्षण कार्यणानुमेये तद्वीजे कारणे च्छायादिकरणं पल्लवादाप्तिर्भवति। न वृक्षस्येति। ततोऽनमानस्यानुपपत्तिरिति ।
नत्रापि--"आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात्"। यस्याधेयं यत्स्वरूपं तस्याधेयस्य शक्तिसिद्धौ निजशक्तियोगोऽस्ति, समानन्यायात् । पल्लवाद्याधेयस्य च्छायादिकर्मकरणे शक्तिसिद्धौ वृक्षस्य निजस्य च शक्तियोगोऽस्ति । यथा वह्ननिजस्य दाहिका शक्तिर्वह्निर्दहतीति । यदुष्णगुणो वह्न: काष्ठाटिदाहकर्म करोति तत्र वह्न निजस्य दाहिकायाः शक्तयोगोऽस्ति । द्रव्यं हि यतकिञ्चित् कम्मै करोति । तत्र किश्चित् स्वप्रभावेण किश्चिद गुणप्रभावेण किश्चि कर्मप्रभावाच। यद्यपि तत्र गुणप्रभावात् कर्मप्रभावाच्च यत्किञ्चित् करोति तत् तु द्रव्यस्य स्वप्रभावयोगश्चास्ति । तथापि द्रव्यप्रभावमन्तरेणापि गुणकम्मप्रभावात् तत्तद्भवति शक्तिरूपेण समानन्यायात् ।
तस्मादुक्तदोषान्निजस्य स्वरूपशत्तयुद्भवं तत्वान्तरं न व्याप्तिरिति साङ्क्षत्र कपिल उवाच-तत्रानुमानेऽर्थापत्तिसम्भवाभावोपमानानामन्तर्भावान्न न्यूनलमिति । नत्रोवाचाक्षपादगौतमो वादमार्गोपदेश आन्वीक्षिकीशासने-“प्रसिद्ध
For Private and Personal Use Only