________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः] सूत्रस्थानम् ।
५३५ प्राकृतप्रलये क्रमेण स्वस्वकारणे कार्याणां लयादव्यक्तस्यात्मनश्च पुनः कालानुप्रविष्टं क्षेत्रवाधिष्ठितं प्रधानमेकीभूय त्रिगुणलक्षणं संहतरूपं पृथग्भूतं कालः क्षेत्रज्ञः प्रधानञ्चेति त्रयं वर्तते। तदा तेषां लिङ्गाभावादनुमातुरभावाच नानुमानं स्यात्। ततः प्राकृतप्रलयस्थितिकालात्यय पुनः सगारम्भे कालः प्रवत्तेमानः क्षेत्र नाधिष्ठित प्रधानमनप्रविश्य तं क्षेत्र चालयिखा प्रधानं सङ्कोच्य विकाश्य च सत्त्वरजस्तमोगुणानभिव्यज्य चैकीभूतं सर्वमव्यक्तं नामात्मा चतुविंशतत्त्वं बभूव । तस्मान्महान् । महतोऽहङ्कारः। अहङ्कारात् भूतादितः पञ्च शब्दतन्मात्रादीनि सात्किान्मनोऽधिष्ठातृदेवतागणश्चाभूत् । तेजसादहकारात् सात्त्विकसहायादिन्द्रियाणि दश वभूवुः। ततः कालदिगयोगाच्छब्दमात्रमाकाशं संहतमभूत्। तत्पुनर्वायु स्पर्शमात्रमनप्राविशत् । द्विगुणो वायुभूखा रूपमात्रं तेजोऽनुप्राविशत् । ततस्त्रिगुणं तेजो भूखा रसमात्रा आपोऽनप्राविशत् । ततश्चतुगुणा आपो भूला गन्धमात्रां पृथिवीमनप्राविशन् । पञ्चगुणा पृथिवी वभूव । तेभ्यः पञ्च शब्दादयोऽभिव्यज्यन्त इति । ततश्चैण पाञ्चभौतिकी पृथिवी काय्यरूपा। तया गन्धमात्रामनमीयेत। अद्भिस्तु रसमात्राम् । तेजसा रूपमात्रं तेजः । वायुना स्पर्शमात्रं वायुम् । स्थूलेनाकाशेन शब्दमात्रमाकाशमिति। तैरिन्द्रियश्चेन्द्रियाप्यनगीयेरन् । तन्मात्रैश्च महाभूनेस्तामसमहङ्कारमनुमिनोति । सूक्ष्मरिन्द्रियै राजसं मनसा देवतागणैः सात्त्विकमिति । अहङ्कारेण महान्नम् । महता चाव्यक्तमिति । तदव्यक्त संहतम् । तेन पुरुपञ्च क्षेत्र तत्रस्थपन मिनोतीति । नात ऊर्द्ध मनुमानगम्यं लिङ्गाभावादिति । एवमुक्तश्च सांख्थे कपिलेन। तद्यथा--- "अचाक्षुपाणामनमानेन वोधो मादिभिरिव वह । स्थूलात् पञ्चतन्मात्रस्य । स्थलपञ्चतन्मात्रस्यानुमानन बाधः । वाह्याभ्यन्तराभ्यां तैश्चाहकारस्य । वायनेन्द्रियेणानुमितमूक्ष्मेन्द्रियणाभ्यन्तरेण स्थूलमनोऽनुमितेन मूक्ष्ममनसा तैः पञ्चभिस्तन्मात्रैः आकाशादिभिरहवारस्यानुमानेन बोधः । “तेनान्तःकरणस्य”। तेनाहकारेण महतः खल्वात्मनोऽव्यक्तस्य मनसोऽनुमानेन वोधः। “ततः प्रकृतेः” ततो महतः प्रकृतेरव्यक्तस्यात्मनोऽनुपानेन बोधः ..."संहतपरार्थखात् पुरुषस्य ।” प्रकृतिः संहतपरार्था कालक्षेत्रक्षप्रधानानीति समुदायात्मिका। न तु प्रधानमात्रपरार्था। तस्मादव्यक्ताख्यायां संहतरूपायां प्रकृती स्थितस्य क्षेत्रज्ञस्य स्वादनुमानादभेदो युक्तः। एतौ च पूर्वपक्षसिद्धान्तौ एवंभूतयुक्तस्वीकारादेव प्रतिविधेयौ ।
For Private and Personal Use Only