________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। । तिषणीयः मुत्पत्तेम दादिकार्यविशेषदर्शनेन मृन्मयादिरूपेण ज्ञानान्मृदायनुमानसहचरितपृथिवीभूतमनुमीयते तद्योगात्। एवं द्रव्यानुमानमुक्त्वा कर्मानुमानमाहकारणे समवायात् कर्माणि। कार्यद्रव्यस्य घटादेः कारणे द्रव्ये मृदादौ समवायान्मृदादिकाण्यनुमीयन्ते । कथं गुणा अनुमीयन्त इति ? अत आह-तथा रूपे कारणैकार्थसमवायाच। तथा रूपे कारणद्रव्याणां रूपादौ गुणे कारणैकार्थसमवायाच। मृन्मयादी घटे ये श्यामरूपादयो गुणास्तेषु मृद्वालुकादिकारणस्यकस्मिन्नर्थे समवायाद नुमीयन्ते। कर्माणि यैः कर्मभिः मृदादिस्थं रूपादिकं सजातीयरूपाद्यन्तरमारभते । सानि कर्माणि मृदादौ कारणे वर्तन्ते। मृदादिकारणं रूपादि कारणञ्च द्वयमप्येकस्मिन्नर्थे घटादौ रूपे समवायेन वर्तत इति। कारणकार्थसमवायेन गुणे रूपादो कर्माप्यनुमीयन्ते। एवं मृद्वालुकादीनां संयोगश्च कथमनुमीयत इति ? अत आहकारणसमवायात् संयोगः। घटादिकाय कारणमृदादिसपवायान्मृद्वालुकादेः संयोगोऽनुमीयते। सोऽयं संयोगः पुनः कारणसमवायाच्च तूलकपिण्डावयवे वर्तमानः प्रचयाख्यं तूलकपिण्डमहत्त्वमारभते। लूलकपिण्डावयवे यत् कर्म यश्च तत्तुलकपिण्डावयवस्थसंयोगस्तयोः कारणं यदयद्रव्यं तत् तूलकपिण्डावयवस्य कारणमिति । कारणस्य यस्मिन्नर्थे समवायस्तस्मिन्नर्थ कर्मणः संयोगस्य समवाय इति कारणैकार्थसमवायसम्बन्धेन कर्मणा तूलकपिण्डावयवे वर्त्तमानस्तूलकपिण्डावयवसंयोगस्तत्तूलपिण्डमहत्त्वं प्रचयाख्यं समवायाचारभते । तेन तत्रापि संयोगः कारणसमवायादनुमीयते । संयुक्तसमयायादग्नेवशेषिकम् । गन्धकादिद्रव्यविशषस्याभिना संयुक्तस्य समवायात् तदग्नवशे पिकं रूपादीत्यनुमीयते। नीलोऽयमग्निर्गन्धकसंयोगात् । इत्येवं दृष्टानां दृष्टप्रतिपादनाय प्रपञ्चोऽयं द्रष्टव्यः। अयं लौकिकस्यानुमानस्य प्रपञ्चो दृष्टानां प्रत्यक्षाणां भावानां कियतां यः कृतः स खलु निखिलानां दृष्टानामनुमानरीतिप्रतिपादनाय द्रष्टव्य इति । दृष्टाभावे तद्वचनादाम्नायप्रामाण्यामिति । यो यो भावो न प्रत्यक्षस्तेपां दृष्टलिङ्गाभावे तद्वचनात तस्य लिङ्गस्य वचनादुपदेशादनुमाने सम्बन्धज्ञाने आनायस्य प्रामाण्यं वेदादिशास्त्रं प्रमाणमिति । आन्नाये ह्यागमो दृश्यते । यदिदमस्य कार्य कारणं संयोगि समवायि चेति तद्वचनादनुमीयेत। तद्यथा---
तद यथा-सङ्केतकालानुभूताः कुलालादिव्यापारानन्तरोपलम्भम्वभावघटादयः, तथा च ताल्वादिव्यापारानन्तरनियतोपलम्भस्त्र भावाः शब्दा इनि । स्वभावो हेतुः, ततश्च स दृष्टान्त
For Private and Personal Use Only