________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः] सूत्रस्थानम् ।
५३१ तत्प्रामाण्यमाप्तप्रामाण्या” इति स्ववचनानुपपत्तिः स्यात्। प्रतिपत्तिहेतुहिं प्रमाणमिति चोक्तं वात्स्यायनेन। इत्यभिप्रायेणास्मिंस्तन्त्रे युक्तिः प्रमाणवेन पृथगुक्ता तत्त्वज्ञानसाधनवादिति, अतो न विरोधश्चरकाक्षपादयोरिति । अथ वैशेषिके साङ्घय योगशासने च त्रिविधं प्रमाणमुक्त-प्रत्यक्षमनुमानं शब्दश्च। गोतमेनालपादेन चतुर्वि सहोपमानेन। अस्मिंस्तु सह युक्त्या ततो विरोध इनि चेन् ? न। वैशेषिकादिषु स्वस्वाभिधेयखात् षट्पदार्थादीनां वादमागोपदेश आन्वीक्षिकीशासने यादप्रत्तो न्यायवाक्यस्य पञ्चावयवानां पक्षाश्रितयोः स्वस्वपक्षसाधनखापमानस्य पृथगभिशनमक्षपादेन कृतम् । नत्र प्रतिमा नृपदेशः, हेतुरनुमानम्. दृष्टान्तः प्रत्यक्षम्, उपनय उपमानम् । इति चतुभिः प्रमाणैः सायिखा तदुपसंहारो निगमनेनेति वादोपयोगिलादुपमानं पृयगुक्तमक्षपादन। प्रमेयान्तर्गतखेऽपि प्रमाणसंशयादीनां पञ्चानां पृथगुपादानवदिति। वैशेषिकादौ तु तदवादमागोपदेशशास्त्रं प्रसिद्धं यत् तदेवाक्षपाठप्रकाशितं तत्प्रसिद्धवादमागोपदेशशास्त्रं कणादकपिलपतञ्जलिवरकादिभिः सव्वमहपिभिः अशोकृत्य तद्वादमार्गमनुसृत्य स्वे स्वे तन्त्रेऽभिहितस्यार्थस्य परीक्षायां तैरेव पञ्चभिरवयवैः परीक्षा कृता दृष्टान्तप्रदशनात् । तद् यथा वैशेषिके-"असदिति भूतप्रत्यक्षाभावाद् भूतस्मृतेविरोधिप्रत्यक्षवत् ।" इति मूत्रे विरोधिप्रत्यक्षवदिति दृष्टान्त उक्तः। अत्रोपदेशः प्रतिज्ञा--गवाभावेनाश्वेन गोः प्रतीतिः। असदिति भूतप्रत्यक्षाभावाद् भूतस्मृतेरिति हेतुः। विरोधिप्रत्यक्षवदिति दृष्टान्त उपमानमिति। तथा साङ्ख प्रापि कपिलेनोक्तः- “स्वभावाच्चेष्टितमनभिसन्धानादभृत्यवत्" इति मूत्र। प्रधानस्य स्वभोगस्यानभिसन्धानात् पुरुषार्थ चेष्टितमित्युपदेशः प्रतिज्ञा। स्वभावादिति हेतुरनुमानम्। भृत्यवदिति दृष्टान्त उपमानमिति । इत्येवं वादे न्यायवाक्यस्य पञ्चावयवानङ्गीकृत्य स्वे स्वे तन्त्रे प्रमाणोपदेशे तूपमानं पृथङ्नोक्तं कणादकपिलादिभिः। एवमस्मिंस्तन्त्रेऽपि चोपमानमिह प्रमाणप्रकरणेऽनुमानेऽन्तर्भूतमिति मला न पृथगुक्तम्। वादमागोपदेशे तु रोगभिपगजितीये पृथगुपमानं वक्ष्यते-वादोपयोगिन्यायवाक्यावयवार्थम्। यथा---अथ हेतुः। हेतुर्नामोपलब्धिकारणम् । तत्प्रत्यक्षमनुमानमैतिह्यमौपम्यमिति । तस्मान्नैषां विरोध इति । साङ्केत्र वैशेषिकेऽप्याप्तोपदेशे तद्भावव्यवहारे तु योग्यतायाः प्रसाधने। सङ्केतकालविज्ञातो विद्यतेऽर्थी निदर्शनम् ॥” एतद, व्याख्यातं कमलशीलेन---"युक्तो न साध्यसाधनयाभदः, अत्र तद्भावभाविता हेतुः, कार्यकारणता
For Private and Personal Use Only