________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३० चरक-संहिता।
[ तिरेपणोयः यस्मिन् वस्त्रे नीललक्षणं न पश्यति तन्नीललक्षणाभावेनानुमीयते नेदमानेतुमुक्तवानिति। यत्र नीललक्षणं पश्यति तत्रानीललक्षणालक्षितं पश्यन् नेतु प्रतिपद्यत इति प्रतिपत्तिहेतुखादभावः प्रमाणं प्रमेयसिद्धेरिति। तत्राह वादी -----अमावस्तस्य तत्रोपपद्यते यत्र किञ्चिद् भूखा न भवति । तत्र यद् भवति स भावः। स एव यत्र भूखा न भवति सोऽभावः। यथामे फले श्यामता भूवा पक्वे पुनर्न भवति स श्यामभावोऽभावः, न तु यत् नास्ति सोऽभावः। यथा निम्बे मधुरो नास्तीति। यथा वासामु खल्बलक्षितेषु लक्षणानि भूखा सन्ति तानि तत्रैवालक्षितेषु न भवन्तीत्येवं न दृश्यते। लक्षितलक्षणस्तु नास्तीति दृश्यते तस्मात् तस्मिन् । “असत्यर्थे नाभाव इति चेत् नान्यलक्षणोपपत्तेः”। यथा खल्वयमन्येषु वासःसु नीलवासांस्यानयेत्युक्तस्तन्नीललक्षणानुपपत्तिं पश्यति। नैवं नीललक्षणलक्षितेप। सोऽयमन्येषु नीलेष नीललक्षणाभावं पश्यन्नभावेनार्थ प्रतिपद्यत इति। तत्राह वादी"तत्सिद्धेरलक्षितेष्वहेतुः”। तेषु लक्षितेषु वासःसु सिद्धिविद्यमानता येषां भवति न नेष्वभावोऽस्त्यलक्षितललणानाम् । यानि च लक्षितेष विद्यन्ते लक्षणानि तेषामलक्षितेष्वभावः इत्यहेतुः। यानि स्वल भवन्ति तेपामभावो व्याहत इति। “न लक्षणावस्थितापेक्षसिदः।" न वयं ब्रमः यानि लक्षणानि भवन्ति पापभाव इति। किन्तु केपचिल्लक्षणान्यवस्थितानि, अनवस्थितानि च केपुचित्, अवेक्षमाणो येए लक्षणानां भावं न पश्यति तानि लक्षणाभावेन प्रतिपद्यते । “प्रागुत्पत्तेरभावोपपत्तश्च" अभावद्वतं खलु भवति । प्राक् चोत्पत्तरविधमानता। उत्पन्नस्य चात्मनो हानादविद्यमानता च। तत्रालक्षितेप वासामु प्रागुत्पत्तरविद्यमानतालक्षणो लक्षणाना मभावो नेतर इति । अभावस्य प्रमेयसिद्धः प्रामाण्यं सिद्धमिति । __ अथ तको न प्रमाणसंगृहीतो न प्रमाणान्तरम् । प्रमाणानामनुग्राहकस्तत्त्व ज्ञानाय कल्पत इति वात्स्यायनेनाक्षपादाभिप्रायो व्यञ्जितः । तेन प्रमाणासंगृहीतोऽपि तो नाप्रमाणं तत्त्वज्ञानाय क्लुप्तवान् । तापक्षस्तों हनुमानम् । तदवान्तरीयत्वेन तकस्य सिद्धप्रामाण्यम् । आप्तोपदेशावान्तरीयखेन आप्तस्य प्रामाण्यसिद्धिवत्प्रमाणे संग्रहो न कृतः। अन्यथाप्तस्यापि प्रमाणासंगृहीतवादप्रामाण्यं भवतु। तदप्रामाण्ये हीप्टे “मन्त्रायुवेदप्रामाण्यवच्च तत्राप्यपर इत्यनवस्था स्यात् तस्मात् प्रमाणान्तरं युक्तिः।' एवं पूर्वपक्षमुत्थाप्य दृपितंयत-"कार्यकारणभावस्य प्रीपत्तिर्न सङ्गता। तस्मादस्यां न भेदोऽस्ति साध्यसाधनयोर्यतः।
For Private and Personal Use Only