________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः सूत्रस्थानम् ।
५२६ च तत्र नियमः। यथा ऋषयः संस्कृतं भाषन्ते ब्राह्मणादय आउः स्वस्वदेशवचनं भाषन्ते म्लेच्छाश्चानार्यदेशवचनम् । स्वाभाविकस्तु भावः सर्वत्र समानः स्यात् ! यथाग्निरुष्णः शीतं जलमित्येवमादि सर्वत्र तुल्यं न जातिविशेषे व्यभिचरतीति। शब्दो नानुमानम्, किन्तु प्रमाणान्तरमेव । वैशेषिके कणादेनाप्युक्तम् शब्दार्थावसम्बन्यौ। सामयिकः शब्दार्थप्रत्ययः” इति । अथैवार्थापत्तेरनुमानेऽन्तर्भाववत् सम्भवस्यापि प्रामाण्ये प्रमाणान्तरखं नास्ति अनमानेऽनान्तरभावात् । अविनाभाववृत्त्या च सम्बन्धयोः समुदायसमुदायिनोः समुदायेनेतरस्य ग्रहण सम्भवस्तदप्यनुमानमेव । यथा द्रोणस्य समुदायस्य सद्भावग्रहणेनानुपीयल प्रस्थादिमानं समुदायि । न हि प्रस्थादिकसद्भावमन्तरेण द्रोणः सम्भवति। वक्ष्यते च रोगभिपगजितीये,---अथ सम्भवः । सम्भवो नाम यो यतः सम्भवति स तस्य सम्भवः। यथा पडधातवो गर्भस्य, व्याधरहितं. हिनपारोग्यस्यति । न ह्यात्मानं पञ्च च महाभूतानि विना गर्भः सम्भवति। समुदायेन गर्भणानमीयन्ते समुदायिनो धातवः पट् । एवमहितं विना व्याधिन सम्भवति, समुदायेन व्याधिनाऽनुमीयते, अहितमस्याचरितमिति । तथा हितमाचरितमारोग्यणानुमीयत इति ॥२॥ एवमभावोऽपि प्रमाणं न प्रमाणान्तरमनुमानऽनान्तरभावात् । कणादेन चोक्तम्--"काय कायान्तरस्य, विरोधि असूनं भूतस्य. भूतमभूतस्य, भूतो भूतस्य ।” इति। तत्राभूतं भूतस्याभावः विरोधिवात् । तथा च--अस्मिन् सतीदं नोपपद्यते इति विरोधिखे प्रसिद्ध तत्काय्यं नोत्पद्यते । नानुमीयते कारणस्य प्रतिवन्धक किमपि विरोधि वर्तत इति । सत्यं प्रमाणचतुष्टयान्तभूतान्येतानि प्रमाणानीति। अत्राह वादी-"नाभावप्रामाण्यं प्रमेयासिद्धः”। अमावस्य न प्रामाण्यं प्रमेयासिद्धः। प्रमाणेन प्रमीयते यत् तत् प्रमेयम् । तच्च नाभावस्यास्ति । तस्मानाभावः प्रमाणं भवति । तत्रोत्तरमाह-“लक्षितेष्वलक्षणलक्षितबादलक्षितानां तत्पमेयसिद्धिः”। तस्याभावस्य सिध्यति प्रमेयम् । लक्षितेषु लक्षणैरलक्षितखादलक्षितानाम् । यथा सव्यमभावो भाववितरेतराभावसिद्धेः । तथा च गवाभावोऽश्वः एवमश्वाभावो गोरिति परस्पराभावसिद्धेः सव्वं भावजातमभाव इति । अतोऽश्वस्य भावस्य भावलक्षणेन लक्षितस्य यलक्षणं तेन लक्षणेनालक्षितो गौरभाव इति गोरश्वाभावस्य प्रमेयमश्वः। गवाऽनुमीयतेऽश्वो भावः। एवं नीलं वस्त्रमानयेत्युक्त प्रतीतिरियं युक्तिः । इदज्ञ सविकल्पत्वान्न प्रत्यक्षं, नाप्यनुमानं दृष्टान्ताभावात् ; तथाहिदृशाना एक नद्भावभाविवान तत्काथ्यताप्रतिपत्तिः, नत्रापि दृछान्तोऽन्योऽन्वेषणीयः.
For Private and Personal Use Only