________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
धीयते । विद्यते ॥ *
५२८
[ तित्रैपणोय:
चरक संहिता |
I
चारणे मुखपूरणप्रदाहपाटनानि गृहेरन् । न च मुखपूरणादीनि विज्ञायन्ते । अग्रहणान्नानुमेयः प्राप्तिलक्षणः शब्दार्थयोः सम्बन्ध इति । अर्थान्तिके शब्द इति चेत् तदा स्वर्गस्तु यत्र न तत्र शब्दः ; उच्चारयितुमुखे हि शब्दः । यदि स्वर्गान्तिके स्वर्गशब्दस्तदा कण्टताल्वादिस्थानकरणाभावादनुच्चारणम् । इत्येवमुभयप्रतिषेधाच्च नोभयमुभयत्रेति । तस्मान्न शब्देनार्थः प्राप्त इति । तत्राह “शब्दार्थव्यवस्थानादप्रतिषेधः” । शब्दार्थप्रत्ययस्य व्यवस्थादर्शनादनुमीयते व्यवस्थाकरणं शब्दार्थ सम्बन्धोऽस्तीति । असम्बन्धे हि यत्तच्छब्दप्रयोगाद्यथेष्टार्थ प्रत्ययप्रसङ्गः, तस्माच्छब्दार्थयोः सम्बन्धप्रतिषेधो न कत्र्त्तुं शक्यत इति । तत्, “न सामयिकत्वाच्छ्ब्दार्थप्रत्ययस्य " । शब्दार्थव्यवस्थानं न सम्बन्धकारितम्, किन्तु समयकारितं तद्ब्रूमः । अस्येदमिति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽङ्गीकृतः । प्राप्तिलक्षणस्तु सम्बन्धः प्रतिषिद्धः । समयं तत्रावोचाम । कः पुनरयं समयः ? अस्य शब्दस्येदमर्थजातमभिषेयमित्यभिधानाभिवेयनियमयोगः । तस्मिन्नुपयुक्त शब्दादर्थ सम्प्रत्ययो भवति । विपर्यये हि शब्दश्रवणेऽपि तदर्थप्रत्ययाभावः । सम्बन्धवादिनोऽपि शब्दार्थयोर्वा चकवाच्यभावसम्वन्धं ब्रूयात् न तु प्राप्तिलक्षणम् । प्रयुज्यमानग्रहणाच्च लौकिकानां समयोपयोगः । समयपालनार्थञ्च खल्विदं पदलक्षणया वाचाऽन्वाख्यानं व्याकरणं वाक्यलक्षणया वाचात्यर्थे' लक्षणम् । पदसमूहो वाक्यमर्थपरिसमाप्ताविति । तदेवम् अप्राप्तिलक्षणस्य शब्दार्थसम्बन्धस्यार्थजुषोऽपि शब्दार्थव्यवस्थानं नानुमाने हेतुर्भवति, प्राप्तिलक्षणस्यानुमानहेतुतयोक्तवात् । अस्येदं कारणं काय्य संयोगि समवायि चेति लौकिकमित्युक्तं कणादेन । अस्ति चानुमानमप्राप्तिलक्षणेन सम्बन्धेन । यथा दूरान्नगरे दग्धेऽस्मिन् वा ग्रामान्तरेपूद्ध धूमो दृश्यते वह रसम्बन्धस्तेन चानुमीयते कापि वह्निभूत इति चेत् ? न तत्र संयोगसमवायाभावेऽप्यस्ति कार्यकारणभावः सम्बन्धः, न त्वप्राप्तिलक्षणः शब्दार्थयोरिव । अर्थास्तु शब्दार्थयोरप्राप्तिलक्षणः सम्बन्धः । नास्तु तेनानुमानम् । प्रत्ययस्तु शब्दादर्थस्य स्वाभाविक इति चेत् ? न । शब्दार्थप्रत्ययो हि सामयिकः । " जातिविशेष चानियमात् ।" ऋप्याय्र्यम्लेच्छानां जातिविशेषे च यथाकामं शब्दविनियोगोऽर्थप्रत्यायनाय प्रवर्त्तते । नास्ति
Acharya Shri Kailassagarsuri Gyanmandir
ין
For Private and Personal Use Only
प्रमाणान्तरमेवेदमित्याह चरको मुनिः । नानुमानमियं यस्माद् दृष्टान्तोऽन एतत् शान्तरक्षितवचनं कमलशीलेन व्याख्यातं - “ तद् भावभावित्वेन यत्कार्य्यता