________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः सूत्रस्थानम् ।
५२७ सामर्थ्याच्छब्दादर्थसम्प्रत्ययः।” स्वोऽप्सरस उत्तराः कुरवः सप्त द्वीपाः सप्त समुद्रा लोकसन्निवेश इत्येवमादेरप्रत्यक्षस्यार्थस्य न शब्दमात्रात् प्रत्ययः। किन्तु आप्तैरयं शब्द उक्त इत्याप्तोपदेशसामर्थ्यादेव स्वर्गादिशब्दादर्थसम्प्रत्ययः स्यात्--अस्ति स्वर्गादिर्भावः। विपर्यायेण संप्रत्यया. भावात् । यद्याप्तः स्वर्गोऽस्तीत्येवमादिकं नाह कस्तर्हि स्वर्ग इत्येवमादिकं सत्यमिति सम्प्रत्ययं गच्छेत् । न खेवमनुमाने। तत्रापि लिङ्गलिङ्गिनोराप्तोपदेशेनैव वह्न र्वहिवेन धूमस्य धूमत्वेन ज्ञानाद्वह्निधूमयोनि यतधर्मसाहित्यं सम्बन्धो झायत इति । यदुक्तमुपलब्धेरद्विप्रत्तिखादिति-तन्न। अयमेव हि शब्दानुमानयोरूपलब्धेः प्रत्तिभेदः। आप्तोपदेशसामर्थ्यादेवास्य शब्दस्यायमर्थ इति प्रसिद्धिं ज्ञातवता प्रयुक्ताच्छब्दादर्थस्य सम्प्रत्ययः स्यात् अनुमाने च तदुपदेशेन शातानां यस्य येन कार्यकारणभावः 'संयोगः समवायो वा तथा दर्शनेन ततस्मृत्या पुनरप्रत्यक्षस्य तस्य लिङ्गिनो लिङ्गदर्शनेनोपलब्धिरिति द्विपत्तिखमेवोपलब्धः। सम्बन्धाच्चेति यदुक्तं तत्रास्ति च शब्दार्थयोः सम्बन्धोऽनुमतः प्रतिषिद्धश्च। अस्येदमिति षष्ठीविशिष्टस्य वाक्यस्यार्थविशेषोऽङ्गीकृतो वाच्यवाचकभावः सम्बन्धः। “सिद्धे शब्दार्थसम्बन्धे” इति कात्यायनवात्तिकात् । प्राप्तिलक्षणस्तु शब्दार्थयोः सम्बन्धः प्रतिषिद्धः । येन सम्बन्धेन सम्बद्धयोलिङ्गिलिङ्गयोलिङ्गज्ञानेन लिङ्गी गृहेतेति। स च सम्बन्धो नास्ति। “प्रमाणतोऽनुपलब्धः।” प्रत्यक्षतस्तावच्छब्दार्थप्राप्ते!पलब्धिः अतीन्द्रियखात् । रूपिद्रव्यस्य रूपोपलब्धेस्तत्समवायात् संयोगप्रत्यक्षम् । अरूपस्याप्रत्यक्षमिति । यथा येनेन्द्रियेण गृह्यते शब्दस्तदिन्द्रियविषयत्वमतिकान्तोऽर्थो न तेनेन्द्रियेण गृह्यते। अस्ति चातीन्द्रियो विषयभूतोऽप्यर्थः । स च नाननेन्द्रियेण गृहाते। प्राप्तिलक्षणे तु सम्बन्धे गृहप्रमाणे शब्दाथयोः किं शब्दस्यान्तिकेऽर्थः स्यात् ? अथवार्थान्तिके शब्दः स्यात् ? अथोभयं वाप्युभयत्र स्यादिति। यदेषामन्यतमेन प्राप्तिलक्षणः सम्बन्धः शब्दार्थयोरङ्गीक्रियते तदा-"पूरणप्रदाहपाटनानुपलब्धेश्च सम्बन्धाभावः।” स्थानकरणाभावाच । शब्दान्तिकेऽर्थ इति चेदनुमानेनोपलभ्यते तदा कण्ठताल्वादिस्थानकरणत उच्चारणे कण्ठादिस्थः शब्दस्तदन्तिके चार्थश्चेद्वत्तंते तदा अन्नामासिशब्दो
त्रिकालेति पराहतं स्यात् ; अत्र शान्तरक्षित-कमलशीलाभ्यां युक्तिप्रमाणान्तरस्वीकारे पूर्वपक्षसिद्धान्तावुक्तौ “यस्मिन् सति भवत्येव न भवत्यसतीति च। तस्मादतो भवत्येतत् युक्तिरेषाभि
For Private and Personal Use Only