________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२६ चरक-संहिता।
[तिस्त्रैषणीयः कान्तिकखादिति प्रतिषेधस्य चाप्रामाण्यमनैकान्तिकलात् । अर्थापत्तिने प्रमाणमित्यनेनार्थापत्तेः प्रामाण्यप्रतिषेधो भवति, न बर्थापत्तेः सद्भावप्रतिषेधः स्यात् । एवं हि स प्रतिषेधोऽनैकान्तिको भवति । अनैकान्तिकेनाप्रमाणेन प्रतिषेधेन न कश्चिदर्थः प्रतिषिद्धः स्यात् । तत्रापि यदि मन्यसे-नियतविषयेष्वर्थेषु मध्ये स्वविषये व्यभिचारो भवति, न तु विषयान्तरे। तेनार्थापत्तेः प्रायाण्यं प्रतिषेधविषयः, न वापत्तेः सद्भावोऽत्र प्रतिषेधविषय इति । तहि च-“तत्यामाप्ये वा नार्थापत्त्यप्रामाण्यम्”। प्रतिषेधप्रामाण्ये वा सति नार्थापत्तेरप्रामाण्यम् । अर्थापत्तेरपि कार्योत्पादनेन कारणसत्ताया अव्यभिचारो विषयः ; न च कारणधम्मो विषयः। असत्सु मेघषु न बृष्टिर्भवतीत्युक्ते भवत्यापत्तिः सत्सु मेधेषु कृष्टिभवति निमित्तप्रतिवन्धाभावे सति । निमित्तप्रतिबन्धात् तु कचिच्च न भवतीत्यव्यभिचारः। एवमर्थादापद्यते योऽन्योऽर्थः स चेदापत्तिः प्रमाणं भवति, तर्हि शब्दादापद्यते योऽर्थः स चाप्तोपदेशो नाम । “शब्दोऽनुमानमर्थस्यानुपलब्धेरनुमेयखात्” । शब्दोऽनुमानं प्रमाणं न तु प्रमाणान्तरम्, शब्दार्थस्यानुमेयत्वात् । तदनुमेयवं तु प्रत्यक्षतोऽर्थस्यानुपलब्धः। यथाऽनुपलभ्यमानो लिङ्गी मितेन लिङ्गेन पश्चाजज्ञायते—इत्यनुमानम् । एवमिह मितेन खलु ज्ञातेन शब्देन पश्चात् मीयतेऽनुपलभ्यमानोऽयमर्थ इत्यनुमानं शब्दः। यथा लोके कश्चिदाह घटमानय पुत्रकेति प्रयुक्तः पुत्रो यादृशं वस्तु घटेति बुद्धवानयति तद्वस्तु घटखेन ज्ञातं पूर्वमभूतपदेशेन । तदुपदेशेन खलु शब्देनायं घट इति विज्ञायतेऽनुमानेन इति उपदेशः शब्दोऽप्यनुमानमिति । न केवलमर्थस्यानुमेयत्वादनुमानं शब्दः । " उपलब्धेरद्विप्रत्तिखात्" । शब्दस्य प्रमाणान्तरख द्विपत्तिरुपलब्धिः स्यात् । यथानुमाने खेकप्रकारोपलब्धिरन्यप्रकारोपलब्धिः, प्रत्यक्षे शब्दे तु यथोपदेशात् प्रवत्तेते उपलब्धिरनुमानेऽपि तथा प्रवर्तते तस्मादद्विपत्तिखादुपलब्धेः" शब्दोऽनुमानमेव । तत्र चेदुच्यते-अनुमाने लिङ्गलिङ्गिनोः सम्बन्धयोः सम्बन्धप्रतीतो लिङ्गोपलब्धितो लिङ्गिग्रहणम् । तत आह–“सम्बन्धाच्च” । शब्दार्थयोः सम्बन्धाच्च शब्दोऽनुमानम्। सम्बद्धयोरेव शब्दयोः सम्बन्धप्रतीतो शब्दोपलब्धितोऽथग्रहणमिति शब्दोऽनमानमिति। तत्राह-“आप्तोपदेश
संयोगात् भाविशस्यज्ञानं युक्तिरुच्यते, तच्चानुमानं, नार्थान्तरभूतं ; तत्रानुमानाद भेदो दुष्कर इति नाद्रियामहे ; किञ्च कारणेभ्यः कार्य प्रतीयमाणं न कदापि वर्तमानं प्रतीयते, ततश्च
For Private and Personal Use Only