________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः । सूत्रस्थानम्।
५२१ प्रतिदष्टान्तोऽपि प्रसज्यते। यथा रूपस्पशी गन्धरसो नेतरेतरापेक्षौ सिध्यते । एवमतीतानागताविति । नेतरेतरापेक्षा कस्यचित् सिद्धेति । यस्मादेकाभावेऽन्यतराभावादुभयाभावः । यदप्रकस्यान्यतरापेक्षा सिद्धिरन्यतरस्येदानी किमपेक्षा ? यद्यन्यतरस्यैकापेक्षा सिद्धिरेकस्येदानी किमपेक्षा ? एवमेकस्याभावेऽन्यतरत् न सिध्यतीत्युभयाभावः प्रसज्यते। अर्थसद्भावव्याप्रश्वायं वत्तमानः कालः -विद्यते द्रव्यं विद्यते गुणा विद्यते कम्गता यस्य चायं नास्ति तस्य “वत्ते. मानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः।” प्रत्यक्षमिन्द्रियार्थसनिकषज, न चाविद्यमानं सदिन्द्रियेण सन्निकृप्यते। न चायमविद्यमानं किञ्चित् सदनजानाति । प्रत्यक्षनिमित्तं प्रत्याविषयः प्रत्यक्षानं सच नोपपद्यते। प्रत्यक्षानुपपत्तौ च तत्पूर्वकवादनुमानानमयोरनुपपत्तिः। सर्वप्रमाणविलापे सर्वग्रहणं न भवतीति उभयथा च वत्तेमानः कालो गृह्यत; कचिदर्थसद्भावव्यङ्गाः- यथास्ति द्रव्यमिति, कचित् क्रियासन्तानव्यङ्गाः--यथा पचति छिनत्तीति । नानाविधा चैकार्था क्रिया क्रियासन्तानः क्रियाभ्यासश्च । नानाविधा चैकार्था क्रिया पचतीति । स्थाल्यधिश्रयणमुदकासेचनं तण्डुलारोपणमग्न्यभिज्वालनं दीघट्टनं मण्डस्रावणमयोऽवतारणमिति। छिनत्तीति क्रियाभ्यासः । उद्यम्योद्यम्य परशुं दारुणि निपातयंश्छिनत्तीत्युच्यते। यच्चेदं पच्यमानं छिद्यमानञ्च तत् क्रियमाणं तस्मिन् क्रियमाणे-“कृतताकर्तव्यतोपपत्तेस्तूभयथा ग्रहणम् ।” यदा क्रियासन्तानोऽनारबश्विकीपितः सोऽनागतः कालः-पक्ष्यतीति । प्रयोजनावसानः क्रियासन्तानोपरमोऽतीतः कालः-- अपाक्षीदिति। आरब्धः क्रियासन्तानो वर्तमानः कालः-पचतीति ; तत्र योपरतता सा कृतता, या चिकीपितता सा कर्तव्यता, या विद्यमानता सा क्रियमाणा। तदेवं क्रियासन्तानस्थस्त्रैकाल्यसमाहारः। पचति पच्यत इति वर्तमानग्रहणेन गृह्यते। क्रियासन्तानस्यात्राविच्छेदो विधीयते, नारम्भो नोपरम इति । सोऽयमुभयथा बत्तमानो गृह्यते, अपणो व्यपटवणश्च अतीतानागताभ्याम् स्थितिव्यङ्गयो विद्यते द्रव्यमिति । क्रियासन्तानविच्छेदाभिधायी च त्रैकाल्यान्वितः-पचति--छिनत्तीति। अन्यश्च प्रत्यासत्तिप्रभृतेरथेस्य विवक्षायां तदभिधायी बहुप्रकारो लोकेपक्षितव्यः। तस्मादस्ति वर्तमानः काल इति ।
सम्प्रति युक्तलक्षणमाह-बुद्धिरित्यादि। या बुद्धिर्भावान् पश्यति विषयीकरोति, बहुकारणयोगो बहूपपत्तियोगः, जनिश्चायं ज्ञानार्थे, तेन, बहूपपत्तियोगज्ञायमानानन्
For Private and Personal Use Only