________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता।
{ तिषणीयः अथ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीत्युद्देशे-न चतुष्ट्वमैतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्। प्रमाणानां चतुष्टमेवेति न यथार्थम् । ऐतिह्यादीनामपि प्रामाण्यात् न्यूनवचनात् । तत्राह, सत्यमेतान्यपि प्रमाणानि भवन्ति। न तु प्रत्यक्षादिभ्योऽतिरिक्तानि। तस्माचखायेंव प्रमाणानि भवन्ति । कस्मात् ? शब्द ऐतिह्यस्यानान्तरभावादनुमानेऽर्थापत्तिसम्भवाभावानामनर्थान्तरभावाचाप्रतिषयः । आप्तोपदेशः शब्द इति । न च शब्दलक्षणमैतिह्याद् व्यावर्त्तते। सोऽयमभेदः सामान्यात् संगृह्यत इति वेद आप्तोपदेश इव लोक आप्तोपदेश ऐतिह्यमिति। प्रत्यक्षेण अप्रत्यक्षस्य लिङ्गसम्बन्धस्य प्रतिपत्तिरनुमानम् । तथा चार्थापत्तिसम्भवाभावाः संगृहान्ते। वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनीकभावाद ग्रहणमर्थापत्तिरनुमानमेव। वक्ष्यते च रोगभिषगजितोये—“अर्थप्राप्ति म यत्रैकेनार्थेन उक्तनापरस्यार्थस्यानुक्तस्य सिद्धिः। यथा नायं सन्तर्पणसाध्यो व्याधिः इत्युक्त भवत्यर्थप्राप्तिरपतर्पणसाध्योऽयमिति। नानेन दिवाभोक्तव्यमित्युक्ते भवत्यर्थप्राप्तिर्निशि भोक्तव्यमिति ।” सुश्रतेनाप्युक्तम्- “यदकीर्तितमर्थात् आपद्यते सार्थापत्तिरिति ।" इत्येवं समाख्यायोगादर्थादित्यनेन यदकीर्तितं शब्दादापद्यते तच्छन्दद्योत्योऽयो व्यावर्त्तते। यथा न गच्छतीति नत्रा द्योत्यः प्रतिषेधो नादापद्यते। एवं प्रकरोतीत्येवमादिषु प्रकर्षाद्यर्थोऽर्थान्नापद्यते, स च शाब्द एव।
आग्नेये महापुराणे चाग्निना वसिष्ठायोक्तम् --"प्रकटखमभिव्यक्तिः श्रुतिराक्षेप इत्यपि। तस्या भेदो श्रुतिस्तत्र शाब्दं स्वार्थसमर्पणम् ॥” इत्यादिना श्रतिमुक्तवाक्षेप उक्तः। "श्रु तेरलभ्यमानोऽर्थो यस्माद्भाति स चेतरः। स आक्षेपो ध्वनिः स्याच्च ध्वनिना व्यज्यते यतः॥ शब्देनार्थेन यत्रार्थ कृखा स्वयमुपार्जनम्। प्रतिषेध इवेष्टस्य यो विशेषाविधित्सया॥ तमाक्षेपं ब्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः। अधिकारादपेतस्य वस्तुनोऽन्यस्य या स्तुतिः॥ यत्रोक्ते गम्यतेऽन्योऽथ स्तत्समानविशेषणः । सा समासोक्तिरुदिता सझे पार्थतया बुधैः ॥ अपह्न तिरपद् त्य किश्चिदन्यार्थसूचनम् । पर्यायोक्तं यदन्येन प्रकारणाभिधीयते ॥ एषामेकत्र सङ्गे च समाख्या ध्वनिरित्यतः॥” इति। व्याख्यायते चेदं सर्वम्। प्रकटखया बुद्धिः पश्यति, उहलक्षणा सा युक्तिरिति प्रमाणसहायीभूता ; एवमनेन भवितव्यमित्येवंरूप अहोऽत्र युक्तिशब्देनाभिधीयते ; सा च परमार्थतोऽप्रमाणभूतापि वस्तुपरिच्छेदे प्रमाणसहाय
For Private and Personal Use Only