________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२० चरक-संहिता।
[तिरेपणीयः तीति। तत्राह-"नैकदेशवाससादृश्येभ्योऽर्थान्तरभावात् ।” नायमनुमानव्यभिचारः। अननुमाने तु खल्वयमनुमानाभिमानः । कथं ? नाविशिष्टो लिङ्गं भवितुमर्हति । पूच्चोंदकविशिष्टं खलु वर्षोदकं शीघ्रतरख स्रोतसो बहुतरफेनफलपर्णकाष्ठादिबहुलञ्चोपलभमानः पूर्णत्वेन नद्या उपरिष्ठाद् दृष्टो देव इत्यनुमिनोति, नोदकदिमात्रेण। पिपीलिकामायस्याण्डसञ्चारे भविष्यति वृष्टिरित्यनुमीयते। न त्रासात् कासाञ्चिदिति। नैवं भयरवासितं तत्सदृशोऽयं शब्द इति विशेषपरिज्ञातान्मिथ्यानुमानमिति । यस्तु सदृशाद्विशिष्टात् शब्दात् विशिष्टं मयरवासितं गृह्णाति तस्य विशिष्टोऽयो गृह्यमाणो लिङ्गम् । यथा सर्पोदीनामिति । सोऽयमनुमातुरपराधः, नानुमानस्य । योऽर्थविशेषेणानुमेयमर्थमविशिष्टार्थदर्शनेन बुभुत्सत इति। अथ त्रिकालविषयमनुमानं त्रैकाल्यग्रहणादिति यदुक्तं, तत्र च-“वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः।” हन्तात् प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यदृद्ध स पतितोऽध्वा तत्संयुक्तः कालः पतितकालः। योऽधस्ता स पतितव्योऽवा तत्संयुक्तः कालः पतितव्यकालः। नेदानी तृतीयोऽध्या वत्तते, यत्र पततीति वर्तमानः कालो गृहेत। तस्माद्वर्तमानः कालो न विद्यत इति । तत्राह-“तयोरप्यभावो वर्तमानाभावे तदपेक्षखात् ।” नावव्यङ्गाः कालः, किन्तु क्रियाव्यङ्गाः पततीति। यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः। यदा तु पतिष्यति स पतितव्यकालः। यदा द्रव्ये वत्तेमाने क्रिया गृह्यते, स वर्तमानः कालः। यदि चायं द्रव्ये वर्तमान पतनं न गृह्णाति तदा कस्योपरममुत्पत्स्यमानतां वा प्रतिपद्यते। पतितः काल इति भूता क्रिया। पतितव्यः काल इति चोत्पत्स्यमाना क्रिया। उभयोः कालयोः क्रियाहीनं द्रव्यमधः पततीति क्रियासम्बद्वम्। सोऽयं क्रियाद्रव्ययोः सम्बन्ध गृह्णाति वर्तमानः कालस्तदाश्रयो चेतरौ कालौ तदभावे न स्यातामिति ।
अथापि-"नातीतानागतयोरितरेतरापेक्षासिद्धिः।” यद्यतीतानागतावितरेतरापेक्षौ सिध्येता, प्रतिपदेवमहि बत्तेमानविलोपनम् । नातीतापेक्षाऽनागतसिद्धिः, नाप्यनागतापेक्षाऽतीतसिद्धिः। कया युक्त्या केन कल्पेन वा कथमतीतानागतयोरिति। तन्नोपपद्यते विशेषहेखभावात्। दृष्टान्तवत्माणकाष्ठं, संयोगात् मेलकादिति बोद्ध व्यं, यतः मन्थनस्य क्रियारूपस्य संयोगो न सङ्गच्छते, किंवा मन्थनशब्देन मन्थनरज्जुरुच्यते। युज्यते सम्बध्यतेऽनयेति युक्तिः, तया युक्ता युक्तियुक्ता। चतुष्पाद इति वक्तव्ये सम्पद ग्रहणं गुणवञ्चतुष्पादग्रहणार्थम् ।
For Private and Personal Use Only