________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१८ चरक-संहिता।
[ तिस्रेषणीयः जलकर्षणवीजर्तु-संयोगाच्छस्यसम्भवः । युक्तिः षड़धातुसंयोगाद गर्भाणां सम्भवस्तथा ॥ मथ्यमन्थनमन्थानसंयोगादग्निसम्भवः । युक्तियुक्ता चतुष्पाद-सम्पदव्याधिनिवर्हणी॥ बुद्धिः पश्यति या भावान् बहुकारणयोगजान् । युक्तिस्त्रिकाला सा ज्ञया त्रिवर्गः साध्यते यया ॥ एषा परीक्षा नास्त्यन्या यया सव्वं परीक्ष्यते ।
परीक्ष्यं सदसच्चैवं तथा चास्ति पुनर्भवः ॥ ६ ॥ सदृशं बुधा व्यवस्यन्तीति योजना। आम्रवीजादुप्ताद, यत् फलं जातं तत्तदाम्रवीजसदृशं दृष्ट्वा बुधा व्यवस्यन्ति–यादृशं वीजं तादृशं फल भवति भूत भविष्यति चेत्येवमनुमाय यत् फलमभीप्सति तद्वीजं वपतीत्येवं व्यवस्यन्ति । वीजसदृशं फलं नान्यस्माद्वीजादन्यफलमिति युक्तिः ॥ ८॥
गङ्गाधरः-न केवलं वीजात् सदृशं फलं भवतीति फलने कारणान्तरं दर्शयन्ननुमाने युक्तिमुदाहरति-जलकर्षणेत्यादि। व्याख्यास्यते युक्तिव्याख्याने इति । एवमेव गौतमेनाक्षपादेनोक्तम्-“प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि"। इत्युद्दिश्य प्रत्यक्षलक्षणमुक्तम्, ततः परम्-अथ तत्पूर्वकं त्रिविधमनुमानं पूव्ववच्छेपवत् सामान्यतो दृष्टश्च । व्याख्यातञ्चेदं लक्षणं वात्स्यायनेन ; अथेति प्रत्यक्षानुमानोपमानशब्दतो भावानां ज्ञानानन्तरम् । तैः प्रमाणैस्तेषु भावेषु यस्य येन सह काय्यकारणभावः संयोगः समवायो वा तस्य तस्य तादृशरूपेण ज्ञातस्याप्रत्यक्षस्य येन सह सम्बन्धस्तस्य प्रत्यक्षादिपूर्व यस्याव्यपदेश्याव्यभिचारिव्यवसायात्मकज्ञानस्य तत् । अथ तत्पूर्वकं व्यवसायात्मकं ज्ञानमनुमानम् । इति । अथ शब्देन पूर्व प्रमाणे वानां ज्ञानं सम्बध्यते। तत्पूर्वकमित्यनेन लिङ्गलिङ्गिनोः सम्बन्धदशेनं लिङ्गदर्शनश्चाभिसम्बध्यते। लिङ्गलिङ्गिनोः सम्वन्धयोर्दर्शनेन च लिङ्गस्मृतिरभिसम्बध्यते।
चक्रपाणिः-युक्त प्रमाणस्यान्यशास्त्रप्रसिद्धत्वेनोदाहरणान्येव तावद्दर्शयति ; उदाहरणे ज्ञाते युक्तलक्षणं सुखेन ज्ञायते इत्यभिप्रायेण, जलकर्षणेत्यादि। कर्षणशब्देन कर्षणसंस्कृता भूमिः गृह्यते, जलकर्षणवीजत्तु संयोगात् शस्यस्य सम्भवो भवतीति यज्ज्ञानं तद्युक्तिरिति योजनीयम् ।
For Private and Personal Use Only