________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्याय
सूत्रस्थानम् । महाभूतान्यात्मा चेति षड्धातुसंयोगात् गर्भसम्भवः । षड्धातुसंयोगश्च स्त्रियाः पुंसवार्तवशुक्रसंयोगमन्तरेण न भवति । तयोः संयोगश्च नत्त मैथुनाद भवतीति युक्तितः पुंसास्या मैथुनमनुमिनोत्यतीतमिति युक्त्यपेक्षतर्कः। इहापि गर्भमैथनयोः कार्यकारणभावः सम्बन्धी नियतधर्मसाहित्यमुभयोः कचित् एकतरस्य च कचित्। इत्येवमनूढ़ायाः कुवेरस्य मातुर्गभेदर्शनात् तस्य पिता तस्या मैथनयनुमाय विश्वश्रवसः सन्निधौ गखोवाच कथमेषानूढ़ा गर्भिणी वभूमात्रागता भगवान् ब्रवीतु इति । स होवाच मद्वचनान्न तु पुंसंयोगादिति साप्तोपदेशेनापि तस्या गर्भो ज्ञात इति मैथुनाद गर्भानुमानं न व्यभिचरति, तपित्रा हि पूर्व तस्या गर्भदर्शनान्मथनमेवानुमितमिति। गर्भकारणवेन मैथुनस्य साधारणतया लोके प्रसिद्धः। उभयोनियतधर्मासाहित्यमदुष्टशुक्रपुंसोऽदुष्टार्तवगर्भाशयया सह मैथुनं यत्र तत्र गर्भ एकान्तेन, यत्र गर्भस्तत्र तथा मैथुनञ्चैकान्तेनेत्येवमेकतरस्य वा यत्र धूमस्तत्र वह्निः न तु यत्र वह्निस्तत्र धूमो भजनकपालादावभावात् ; इतिवन् । ___ अथ कारणेन भविष्यतः काव्यस्यानुमानमुदाहरति-एवमित्यादि । वीजात् फलमनागतमिति। अनागतं भविष्यत् फलं वीजादनुमाय व्यवस्यन्तीति योजना। तत्र युक्ति:-क्षेत्रकपणं जलमृतुर्वर्षादिर्वीजञ्चेति-चतुष्कसंयोगात् फलमस्य शस्यं भविष्यति । यदिदं कृष्टायां भूमौ वीजं वपति तदर्पणादिजलं चेल्लभेत तदारं जनयिष्यत्यथ बर्द्धिष्यते, न चेन्जलं लभेत शोषमापत्स्यतेइति युक्त्या तयति। यदि शोपं नापत्स्यते जलं लब्धा वद्धेते तदा शरदादौ काले फलिष्यतीति युक्त्यपेक्षस्तोत्रानुमानम् । एवमेव व्याघेस्तस्य तस्य निदानसेवनदर्शनात् स स रोगो भविष्यतीत्यनुमीयते। तथा पूर्वरूपदर्शनेन भविष्यप्राधिः सम्प्राप्तिदर्शनेन तु जायमानो व्याधिरनुमीयते । यथा गर्भदर्शनेन जायमानो बालोऽनुमीयते, तथोपशयेन च स स एव व्याधिरनुमीयते। यथा वातिकज्वरपूर्वरूपे घृतपानेनोपशयाद्वातिकज्वरो भविष्यतीत्यनुमीयते, तथा जायमाने रोगे चोपशयादनुमीयते स स एव रोगो जायत इति। एवं सर्वत्र कारणेन भविष्यत्कार्यानुमानं स्यात् । तत्रासामान्यतो दृष्टश्च भूतं भवद भविष्यच कार्यमनुमीयते तदुदाहरति । दृष्ट्वा वीजात् फलं जातमिहैव दर्शयति । यद्यपि च कारणं कार्य व्यभिचरति, यतः, नावश्यं वीजसद्धावे फलं भवति, तथापि सहकारिकारणान्तायुक्त वीजं फलं न व्यभिचरतीत्यभिप्रायो बोद्धव्यः, कारणसामग्री च कार्ये न व्यभिचरत्येव ॥८॥
For Private and Personal Use Only