________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri Ka
५१४
तिस्प्रेषणोयः
चरक-संहिता। तिषणायः प्रत्यक्षपूवं त्रिविधं त्रिकालञ्चानुमीयते। वहिनिगूढो धूमेन मैथनं गर्भदर्शनात् ॥ एवं व्यवस्यन्त्यतीतं वीजात् फलमनागतम् ।
दृष्टा वीजात् फलं जातमिहैव सदृश बुधाः ॥८॥ अविद्या। दृग्दर्शनशक्त्योरेकात्मतेवास्मिता । सुखानुशयी रागः । दुःखानु शयी द्वषः। स्वरसवाही विदुषोऽपि तथारूढ़ोऽभिनिवेशः।” इत्येवं पञ्चधा चित्तवृत्तिनिरोधे योगे योगिनामवाद्यार्थस्य मानसप्रत्यक्षासम्भवान्नेदं प्रत्यक्षलक्षणं भवति । तदा द्रष्टुः स्वरूपेणावस्थानात मनसश्च प्रशाने लयादभावादिति दोषः । नायं दोषः। लीनवस्तुलब्धातिशयसम्बन्धाद्वा। योगिनां समाधौ तत्तत् संयमदेशबिशेषे यत्र लीनं चित्तं भवति तत्तल्लीनवस्तुनि लब्धोऽतिशयो दृत्तिभ्यः पञ्चभ्योऽतिरिक्त एव योऽर्थ ईश्वरपर्यन्तस्तत्सम्बन्धाद्वा प्रत्यक्ष भवति । न तत्र लक्षणन्यूनखदोषः। तदानीं समाधौ पृथिव्यादीनामहङ्कारान्तानां महति तत्त्वे लयान्महता तत्त्वेन चेतसा खव्यक्ताख्य आत्मा पञ्चविंशं पड्विंशं सप्तविंशमष्टाविंशमेकोनत्रिंशं दृष्ट्वा त्रिंशं परमात्मानं शान्तं शिवमद्धतमव्यवहार्य पश्यति, योगसिद्धश्च भवति ; न चेश्वररूपेणाभिनिप्पद्यत इति । ___ अथ वैशेषिके शास्त्रे कणादेनाप्युक्तम्- "अविद्या आत्मेन्द्रियमनोऽर्थसन्निकर्षाद यन्निष्पद्यते तदन्यत् । सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागो परखापरखे कर्म च रूपिद्रव्यसमवायाचाक्षुपाणि, अरूपिष्वचाक्षुपाणि। अनेकद्रव्यसमवायाद् रूपविशेषाच्च रूपोपलब्धिः। एतेन रसगन्धस्पर्शषु शानं व्याख्यातम् । तत्समवायाकर्मगुणेषु” ॥७॥
गङ्गाधरः-अथ प्रत्यक्षानन्तर्यादुद्दिष्टमनुमानं लक्ष्यते-प्रत्यक्षपूर्वमित्यादि। मानसे प्रत्यक्ष ज्ञाने यत् तु मानसं ज्ञानं प्रमाणं तदुपदेष्टुपनुमानमाह–प्रत्यक्षपूर्वमिति । प्रत्यक्षं पूर्व यस्य तत् प्रत्यक्षपूर्वम् । त्रिविधं कारणं कायं सामान्यतो दृष्टम् । त्रिकालं भूतं भवद यविष्यञ्च । वस्तु यत् परोक्षं तदनु प्रत्यक्षात् पश्चाद यन्मीयते शायते तदनुमानम्। प्रत्यक्षपूर्व मित्यनेन ख्यापित
चक्रपाणिः-अनुमानरूपमाह-प्रत्यक्षेत्यादि। प्रत्यक्षग्रहणं व्याप्तिग्राहकप्रमाणोपलक्षणार्थ, तेन, प्रत्यक्षपूर्वमिति व्याप्तिग्राहकप्रमाणपूर्वं । त्रिविधमित्यनुमानत्रैविध्यं दर्शयति, तेन, कार्यात् कारणानुमानं यथा-गर्भदर्शनान्मैथुनानुमानं, तथा कारणात् कार्यानुमानं यथा-वीजात्
For Private and Personal Use Only