________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः ]
सूत्रस्थानम् ।
५१५
ज्ञ
यद ्यस्य कारणं यस्य च कार्य्यस्य यत् कारणं यस्य च . सामान्यं यत्र तयोस्तयोः सम्बन्धयोर्नियतसम्बन्धस्य प्रत्यक्षेण ज्ञानं लिङ्गज्ञानं तयोः परोक्षस्य लिङ्गस्मृतिश्च परोक्षस्य ज्ञाने हेतुरिति ज्ञापयिष्यते त्रिविधं रोगविशेषविज्ञानीये रोगभिषग्जितीये च विमाने । अनुमानं नाम तर्कों युक्त्यपेक्ष इति । युक्तिव अत्रातः परं वक्ष्यते - बुद्धिः पश्यति या भावान् बहुकारणयोगजान् । युक्तित्रिकाला साया त्रिवर्ग साध्यते यया ।। इति । तेनात्र प्रत्यक्षपदं प्रत्यक्षादिव्यवसायात्मकशानरूपप्रमाणोपलक्षितम् । अप्रत्यक्षाणामुपलब्धिकारणं लिङ्गं पञ्चविधं हेतुपूर्वरूपरूपोपशयसम्प्राप्तिभेदेन भवति । तत्पञ्चविधलिङ्गलिङ्गिनोः सम्बन्धज्ञानं प्रत्यक्षादिप्रमाणं पूर्व यस्य तस्य तत्पञ्चविधलिङ्गदर्शनादिना तलिङ्गकत्वेन तस्य च स्मृतितोऽप्रत्यक्षस्य मनसा यज्ज्ञानमव्यभिचारि व्यवसायात्मकं तदनुमानम् । तत् खलु बहुकारणयोगेनोपपत्तितो यत् यथा तत् तथा प्रकाशनानन्तरनिश्चयरूपम् । तेन हि गुणतो दोषतो वा निश्चित्य हातुमुपादातुमुपेक्षितु वा वाङ्मनः शरीरकर्म्मभिर्व्यवस्यति । सम्बन्धश्च लिङ्गलिङ्गिनोः कार्य्यकारणभावः संयोगः समवायश्च । तत् सम्बन्धज्ञानञ्च प्रमाणावयवैः प्रत्यक्षाद्यन्यतमैकानेकैर्भवति । लिङ्गलिङ्गिनोश्चैषः सम्बन्ध उभयोरेकतरस्य वा नियतधर्म्मसाहित्यं व्याप्तिरुच्यते । स चासकृत्प्रत्यक्षादिना निश्चीयते न सकृत्प्रत्यक्षादिना । तथा च कियदुदाहरति-बहिर्निगृढ़ो धूमेनेत्यादि । अतीतं काय्र्येण कारणमेवं व्यवस्यन्ति । यथा निगूढो वहिधूमेनानुमीयते कुत्रचिदग्निः संवृतो वर्त्तत इति । यस्तु खलु पूर्व्वं दृष्टवान् धूमो जायते आज एव नान्यस्मात् । ततो वह्निधूमयोर्नियतं धूमस्य धस्य वह्नौ धर्म्मिणि साहित्यं ज्ञायते । जन्यजनकभावः सम्बन्धः । अत्र युक्तिः न हि धूम आर्द्रेन्धनजवह्निमन्तरेण सम्भवति । यत्र कुत्रचिद् धूमो यदि वर्त्तते तदा तेनैव धूमेन तज्जनको वहिरनुमीयते । गृहान्तरे य आन्धनजो वह्निस्तस्मादुत्तिष्ठन् धूम आकाशे गृहान्तरे वा यद्वर्त्तते तयोर्वह्निधूमयोर्विभागवतोर्न संयोगः सम्बन्धः । किन्तु तेन धूमेनानु
सहकारिकारणान्तरयुक्तात् फलानुमानं तथाऽकार्य कारणभूतानाञ्च सामान्यतो दर्शनादनुमानं यथा - धूमाद्वर्त्तमान क्षणसम्बन्धादग्नानुमानम्, एतत् त्रिविधमनुमानं गृहीतं भवति ; त्रिकालमित्यनेन त्रिकालविषयत्वमनुमानस्य दर्शयति ; अनुमीयते इत्यत्र 'येन तदनुमानम्' इति वाक्यशेषः तेन, व्याप्तिग्रहणादनु अनन्तरं मीयते सम्यक् निश्चीयते परोक्षार्थो येन तदनुमानं, व्याप्तिस्मरणसहायलिङ्गदर्शनमित्यर्थः । त्रिविधमिति यदुक्तं तस्योदाहरणं दर्शयति - वह्निरित्यादि ।
For Private and Personal Use Only