________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
सूत्रस्थानम् ।
५१३ मुपादेय एतदर्थे तूपेक्ष्य इति निश्चिनोति। तत् खलु तहटसम्बन्धं तद्धट. सन्निकृष्टचक्षुर्जन्यं घटविषयकं चाक्षुष ज्ञानमित्येव नाम्नोल्लेखयुक्तं प्रत्यक्षमुच्यते। तन्निश्चयज्ञानं व्यवसायलक्षणम्। तेन हि निश्चित्य व्यवस्यति भो ईदृशं घटमानय नेदृशमित्येवमादिव्यवसायः क्रियते । विषयाणामानन्त्याद विषयभेदेनानन्तमपि चाक्षुपवादिभेदेन षड्विधं तदाकारेणोल्लेखात्। तत्तद्विषयकं चाक्षुपं प्रत्यक्षं तत्तद्विषयकं प्राणजं ज्ञानं रासनं ज्ञानं खाचं ज्ञानं श्रावण ज्ञानमिति पञ्चधा लौकिकम् । तथा सुखादिविषयकं मानसं ज्ञानश्च लोकिकमात्मादिबिपयकन्तु योगजं मानसमलौकिकमित्युभयं मानसशानं न प्रत्यक्षमपि न प्रमाण सार्वजनीनखाभावात निश्चयखाभावाच । योऽयं धनबान्धवादिभिः सुखमनुभवति तैश्च तस्य शत्रुदुःखमनुभवतीति । यदि प्रत्यक्षमेव प्रमाणं भवति तर्हि चानुमानादीनां मानसज्ञानत्वेन प्रामाणे सिद्धे पृथगवचनानर्थक्यात्। यथा तथा भवत्खनुमानादिकं ज्ञानं मानसज्ञानमेवेति तस्मात् पञ्चविधमै न्द्रियज्ञानं प्रत्यक्षं नाप्रमाणम् । न मानसं ज्ञानं प्रत्यक्षं नाम प्रमाणम् । यत् तु मानसशानं प्रमाणं भवति तदनुमानादिनामधेयं भवति । सुखादिकन्तु मानसप्रत्यक्षप्रमाणाविषयत्वेऽपि प्रमेयमनुमानादिविषयखात । __ अथैवं समाधौ योगिनामवाह्यप्रत्यक्षे तु योगजज्ञानमित्याकारोल्लेखेन तत्तदिन्द्रियमनोमिस्तु तदाकारोल्लेखाभावात् प्रत्यक्षलक्षणस्याव्याप्तिदोषः इति चेत् ? तदोच्यते-- योगिनामवाह्यप्रत्यक्षवान्न दोषः”। योगिनां समाधौ चित्तस्य वाह्यत्तिनिरोधेऽपि खल्ववाह्यानामर्थानां मनसा प्रत्यक्षवान्नाव्याप्तिदोषः। कणादेनाप्युक्तम---"आत्मन्यात्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् । तथा द्रव्यान्तरेषु समाहितान्तःकरणानाम् । तत्समवाया कर्मा गुणेषु इति ।" समाहितान्तःकरणानामात्ममनसोरात्मनि संयोगविशेषादात्मविषयं प्रत्यक्ष भवति। तथा द्रव्यान्तरेष्ववाद्य षु चात्ममनसोः संयोगविशेषात् प्रत्यक्षमिति योगजं मानसं विज्ञानमित्याकारेणोल्लेखान दोषः। अस्तु चैवमात्मादिप्रत्यक्ष. मीश्वरप्रत्यक्षे पुनरव्याप्तिः। योगशासने ह्य क्तं पतञ्जलिना-"योगश्चित्तत्तिनिरोधः। वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः। प्रमाणविपर्ययविकल्पनिद्रास्मृतयः। प्रत्यक्षानुमानागमाः प्रमाणानि। विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्। शव्दज्ञानानुपाती वस्तुशून्यो विकल्पः । अभावप्रत्ययालम्बना वृत्तिर्निद्रा। अनुभूतविषया सम्प्रमोषः स्मृतिः। अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्ले शाः। अनित्याऽशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिः
For Private and Personal Use Only