________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिस्प्रेषणीयः
५१२
चरक-संहिता। तदा पांशुराशिप्रभृतिष्वपि ते द्वे गुणान्तरे अशास्येताम् । द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिपु प्राणिसंगृहीतेप्वपि धारणाकर्षणे नाभविष्यतामिति तस्मात् सर्वग्रहणमेव । अथावयविनं प्रत्याचक्षाण आह-मा भूत प्रत्यक्षलोप इति । अणुसञ्चयं दर्शनविषयमिति प्रतिज्ञातवान् किमनुयोज्य इति ? एकमिदं द्रव्यमित्येकबुद्धिविषयम्। पथ्येनुयोज्यस्तु किमेकबुद्धिरभिन्नार्थविषया ? आहोस्विदनेकार्थविषयेति ? अभिन्नार्थविपयेति चेत्, अर्थान्तरानुज्ञानात् अवयविसिद्धिः। नानाथेविषयेति चेत्, भिन्नेप्वेकदर्शनानुपपत्तिः । अनेकस्मिन् एक इति व्याहता बुद्धिर्न दृश्यत इति ।
“सेनावनवद् ग्रहणमिति चेत् नातीन्द्रियत्वार्थत्वादणूनाम् ।” यथा सेनाङ्गेषु वनाङ्गेषु च दूरादगृह्यमाणपृथक्त्वेषु एकमिदमिति बुद्धिरुपपद्यते, तथा परमाणुषु सञ्चितेप्वगृह्यमाणपृथक्त्ववेकमिदमिति बुद्धिरुपपद्यते । दुरात् अगृह्यमाणपृथक्त्वानां सेनाङ्गानां बनाङ्गानाञ्च यथा च कारणान्तरतो दूराव पृथक्त्वस्य न ग्रहणम् । तद्यथा । अगृहामाणजातीनां धव इति वा खदिर इति वा जातिग्रहणं दूरान्न भवति । एवमगृहप्रमाणप्रस्पन्दानां सेनावनाङ्गानां दूरात् प्रस्पन्दनग्रहो न भवति । तथा च गृहप्रमाणेऽप्यर्थसगृहे पृथक्त्वस्याग्रहणादेकमिति भाक्तः प्रत्ययो भवति, न खणूनाम् । तथा संघाते गृहप्रमाणेऽप्यगृहप्रमाणपृथकलानां कारणतः पृथक्त्वस्याग्रहणाद्भाक्त एकप्रत्ययो भवति। कस्मात ? अतीन्द्रियत्वादणूनामिति । तथा चाणूनां संघातस्यैवैकप्रत्ययो भवति घट इति पट इति । न त्वणूनां भाक्तोऽपि प्रत्ययो भवति सेनावनाङ्गवत् । अतीन्द्रियत्वादिति गौतमाक्षपादः। सायशास्त्रे कपिलेन विवेकाद् बन्धध्वंसमुपदिश्य तद्विवेकजनकप्रत्यक्षलक्षणमुक्तम्। न केवलं प्रमाणस्तप्रत्यक्षलक्षणमुक्तम। तेन योगजप्रत्यक्षमिह प्रमाणभूतमत्यक्षाधिकारे चरकाक्षपादाभ्यां नोक्तमिति अविरोधः। कपिलेन यत प्रत्यक्षलक्षणमुक्तं, तदयधा-“यत्सम्बन्ध सदयतुतदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षम् ।” व्याख्यातञ्चैतत्-यद्विज्ञानं यत्सम्बन्ध सत। यत्रार्थ यतो जायमानं जन्यत्वेन सम्बन्धयुक्तं सत् । तदाकारोल्लेखि तत् तद्विपयकखतरजन्यत्वाभ्यां नाम्नोल्लेखयुक्तं भवति तद्विज्ञानं तस्यार्थस्य प्रत्यक्षं भवति। विशेषेण ज्ञायते येन तद्विज्ञानम् । खल्विदमेवं दोपाद्धेयमिदमेवंगुणत्वादुपादेयमिदं पुनदोषगुणाभावेन प्रयोजनामावादुपेक्ष्यमित्येवं निश्चीय व्यवस्यति येन तज्ज्ञानं विज्ञानम्। यथा खल्वयं चक्षुपा घटं पश्यन मनसा वितायं मृन्मय एतल्लक्षण एतत्प्रयोजनाय हेय एतदर्थ
For Private and Personal Use Only