________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१श अध्यायः सूत्रस्थानम् ।
५११ भिन्ना एकदेशाः सम्भवन्तीति तवाक्यवद्वत्तं प्रत्यक्षं नोपपद्यत इति। इदं तस्य तृत्तं येषामिन्द्रियार्थसन्निकर्षाद ग्रहणमवयवानाम् । तैरवयवैः सहावयवी गृह्यते। येपामवयवानां व्यवधानादग्रहणं तैरवयवैः स नावयवी गृह्यते । न चैतत्कृतोऽस्ति भेदः। समुदायोऽप्यशेषतावान् समुदायो वृक्षः स्यात् । तत्समाप्तिर्वा उभयथा ग्रहणभावः । मूलस्कन्धशाखापलाशादीनामशेषतावान् समुदायो वृक्षः स्यात् । समाप्तिवों समुदायिनाभिति-उभयया समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यते। अवश्वस्ताबदवषयान्तरस्य व्यवधानादशेषग्रहणं नोपपद्यते। एवं समाप्तिग्रहणमपि नापवले समाप्तिमताभग्रहणात् । सेयमेकदेशग्रहणसहचरिता वृक्षवुद्धिः द्रव्यान्तरोपपत्तो कल्पाते, न समुदायमात्र इति। यदुक्ता --एकदेशोपलब्धिनाक्यविसद्भावादिति, तत्र साध्यखादवयविनि सन्देहः। अवयविसद्भावादित्ययं हेतुः, समाप्तिमतामहेतुः साध्यताम् । साध्यन्तु खलु तावदेतत्कारणेभ्यो द्रव्यान्तरमुपपद्यते । एकदेशप्रहणेन गृह्यते चावयवीति साध्यम्, अवयविसद्भावादिति हेतुरपि स एव । अतस्तु हेतोः साध्यखात् साध्यसमखादहेतुलमुपपद्यते। तदेकदेशग्रहणगृहीतोऽवयवी तदेकदेशसमानधम्मेण द्रव्यान्तरमुपपद्यते । यस्येकदेशग्रहणं तन्नोपपादितं स्वादिति । एवं सति विप्रतिपत्तिमात्रं भवति। विप्रतिपत्तेश्चावयविनि संशयः-किं समुदायो वृक्षोऽन्यो वेति ।
तत्राह --सर्वग्रहणमवयविसिद्धेः। यद्यवयवी नास्ति तदा सर्वग्रहणं नोपपद्यते। किं पुनस्त सव्वं ? द्रव्यगुणकम्मे समवायसामान्यविशेषाः। कथं कृखा परमाणुसमवस्थानं तावद दर्शनविषयो न भवतीति, अतीन्द्रियत्वादणूनाम् । द्रव्यान्तरञ्चावयविभूतं दर्शनविषयो नास्तीति। दर्शनविषयस्थाश्चेमे द्रव्यादयो गृह्यन्ते। तेन निरधिष्ठाना न गृहेपरन्। गृह्यन्ते तु कुम्भोऽयं श्याम एको महान् संयुक्तः स्पन्दतेऽस्ति मृन्मयश्चेति । सन्ति चेमेऽत्र गुणादयो धर्मा इति। तेन सर्वस्य ग्रहणात् पश्यामोऽस्ति द्रव्यान्तरभूतोऽवयवीति । एवमवयविसिद्धेः सव्वग्रहणम् । “धारणाकर्षणोपपत्तेश्च ।” धारणाकर्षणे द्वे संग्रहकारिते भवतः। संग्रहो नाम संयोगसहचरितं गुणान्तरम् । यथा ह्यपां स्नेहव्ववपैच्छिल्यकारितं मृदादिद्रव्यान्तरेण संयोगादामे कुम्ने गुणान्तरमग्निसंयोगात् पक्वे तत्रैव कुम्मे पुनगुणान्तरमुष्णतीक्ष्णखादिकारितम् । यदि तदा कुम्भे यदगुणान्तरं पक्वे च पुनयेद्गुणान्तरं स एव संग्रहो नाम तत्संग्रहकारिते चेद्धारणाकर्षणे द्वे नाभविष्यतामथ ते द्वे यद्यवयविकारिते अभविष्यतां
For Private and Personal Use Only